सा लोकान् ब्रह्मलोकादीन् गत्वा वैण्यभयात् तदा प्रददर्शाग्रतो वैण्यं प्रगृहीतशरासनम्
ज्वलद्भिर् निशितैर् बाणैर् दीप्ततेजसम् अन्ततः महायोगं महात्मानं दुर्धर्षम् अमरैर् अपि
अलभन्ती तु सा त्राणं वैण्यम् एवान्वपद्यत कृताञ्जलिपुटा भूत्वा पूज्या लोकैस् त्रिभिस् तदा
उवाच वैण्यं नाधर्मं स्त्रीवधे परिपश्यसि कथं धारयिता चासि प्रजा राजन् विना मया
मयि लोकाः स्थिता राजन् मयेदं धार्यते जगत् मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत्
न माम् अर्हसि हन्तुं वै श्रेयश् चेत् त्वं चिकीर्षसि प्रजानां पृथिवीपाल शृणु चेदं वचो मम
उपायतः समारब्धाः सर्वे सिध्यन्त्य् उपक्रमाः उपायं पश्य येन त्वं धारयेथाः प्रजाम् इमाम्
हत्वापि मां न शक्तस् त्वं प्रजानां पोषणे नृप अनुकूला भविष्यामि यच्छ कोपं महामते
अवध्यां च स्त्रियं प्राहुस् तिर्यग्योनिगतेष्व् अपि यद्य् एवं पृथिवीपाल न धर्मं त्यक्तुम् अर्हसि
एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः कोपं निगृह्य धर्मात्मा वसुधाम् इदम् अब्रवीत्
एकस्यार्थे तु यो हन्याद् आत्मनो वा परस्य वा बहून् वा प्राणिनो ऽनन्तं भवेत् तस्येह पातकम्
सुखम् एधन्ति बहवो यस्मिंस् तु निहते ऽशुभे तस्मिन् हते नास्ति भद्रे पातकं चोपपातकम्
सो ऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुंधरे यदि मे वचनान् नाद्य करिष्यसि जगद्धितम्
त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम्
सा त्वं शासनम् आस्थाय मम धर्मभृतां वरे संजीवय प्रजाः सर्वाः समर्था ह्य् असि धारणे
दुहितृत्वं च मे गच्छ तत एनम् अहं शरम् नियच्छेयं त्वद्वधार्थम् उद्यन्तं घोरदर्शनम्
सर्वम् एतद् अहं वीर विधास्यामि न संशयः वत्सं तु मम संपश्य क्षरेयं येन वत्सला
समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर यथा विस्यन्दमानं मे क्षीरं सर्वत्र भावयेत्
तत उत्सारयाम् आस शैलाञ् शतसहस्रशः धनुष्कोट्या तदा वैण्यस् तेन शैला विवर्धिताः
नहि पूर्वविसर्गे वै विषमे पृथिवीतले संविभागः पुराणां वा ग्रामाणां वाभवत् तदा
न सस्यानि न गोरक्ष्यं न कृषिर् न वणिक्पथः नैव सत्यानृतं चासीन् न लोभो न च मत्सरः
वैवस्वते ऽन्तरे तस्मिन् सांप्रतं समुपस्थिते वैण्यात् प्रभृति वै विप्राः सर्वस्यैतस्य संभवः
यत्र यत्र समं त्व् अस्या भूमेर् आसीत् तदा द्विजाः तत्र तत्र प्रजाः सर्वा निवासं समरोचयन्
आहारः फलमूलानि प्रजानाम् अभवत् तदा कृच्छ्रेण महता युक्त इत्य् एवम् अनुशुश्रुम
स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम् स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः
सस्यजातानि सर्वाणि पृथुर् वैण्यः प्रतापवान् तेनान्नेन प्रजाः सर्वा वर्तन्ते ऽद्यापि सर्वशः
ऋषयश् च तदा देवाः पितरो ऽथ सरीसृपाः दैत्या यक्षाः पुण्यजना गन्धर्वाः पर्वता नगाः
एते पुरा द्विजश्रेष्ठा दुदुहुर् धरणीं किल क्षीरं वत्सश् च पात्रं च तेषां दोग्धा पृथक् पृथक्
ऋषीणाम् अभवत् सोमो वत्सो दोग्धा बृहस्पतिः क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः
देवानां काञ्चनं पात्रं वत्सस् तेषां शतक्रतुः क्षीरम् ओजस्करं चैव दोग्धा च भगवान् रविः