अन्याश् च तत्र दृश्यन्ते गुणाचार्याः कुलस्त्रियः पतिव्रताश् च सुभगा गुणैः सर्वैर् अलंकृताः
वनैश् चोपवनैः पुण्यैर् उद्यानैश् च मनोरमैः देवतायतनैर् दिव्यैर् नानाकुसुमशोभितैः
शालैस् तालैस् तमालैश् च बकुलैर् नागकेसरैः पिप्पलैः कर्णिकारैश् च चन्दनागुरुचम्पकैः
पुंनागैर् नारिकेरैश् च पनसैः सरलद्रुमैः नारङ्गैर् लकुचैर् लोध्रैः सप्तपर्णैः शुभाञ्जनैः
चूतबिल्वकदम्बैश् च शिंशपैर् धवखादिरैः पाटलाशोकतगरैः करवीरैः सितेतरैः
पीतार्जुनकभल्लातैः सिद्धैर् आम्रातकैस् तथा न्यग्रोधाश्वत्थकाश्मर्यैः पलाशैर् देवदारुभिः
मन्दारैः पारिजातैश् च तिन्तिडीकविभीतकैः प्राचीनामलकैः प्लक्षैर् जम्बूशिरीषपादपैः
कालेयैः काञ्चनारैश् च मधुजम्बीरतिन्दुकैः खर्जूरागस्त्यबकुलैः शाखोटकहरीतकैः
कङ्कोलैर् मुचुकुन्दैश् च हिन्तालैर् बीजपूरकैः केतकीवनखण्डैश् च अतिमुक्तैः सकुब्जकैः
मल्लिकाकुन्दबाणैश् च कदलीखण्डमण्डितैः मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः
बहुवारैः कोविदारैर् बदरैः सकरञ्जकैः अन्यैश् च विविधैः पुष्पवृक्षैश् चान्यैर् मनोहरैः
लतागुल्मैर् वितानैश् च उद्यानैर् नन्दनोपमैः सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः
नानापक्षिरुतै रम्यैर् नानामृगगणावृतैः चकोरैः शतपत्त्रैश् च भृङ्गारैः प्रियपुत्रकैः
कलविङ्कैर् मयूरैश् च शुकैः कोकिलकैस् तथा कपोतैः खञ्जरीटैश् च श्येनैः पारावतैस् तथा
खगैश् चान्यैर् बहुविधैः श्रोत्ररम्यैर् मनोरमैः सरितः पुष्करिण्यश् च सरांसि सुबहूनि च
अन्यैर् जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः पद्मैः सितेतरैः शुभ्रैः कह्लारैश् च सुगन्धिभिः
अन्यैर् बहुविधैः पुष्पैर् जलजैः सुमनोहरैः गन्धामोदकरैर् दिव्यैः सर्वर्तुकुसुमोज्ज्वलैः
हंसकारण्डवाकीर्णैश् चक्रवाकोपशोभितैः सारसैश् च बलाकैश् च कूर्मैर् मत्स्यैः सनक्रकैः
जलपादैः कदम्बैश् च प्लवैश् च जलकुक्कुटैः खगैर् जलचरैश् चान्यैर् नानारवविभूषितैः
नानावर्णैः सदा हृष्टैर् अञ्चितानि समन्ततः एवं नानाविधैः पुष्पैर् विविधैश् च जलाशयैः
विविधैः पादपैः पुण्यैर् उद्यानैर् विविधैस् तथा जलस्थलचरैश् चैव विहगैश् चार्वधिष्ठितैः
देवतायतनैर् दिव्यैः शोभिता सा महापुरी तत्रास्ते भगवान् देवस् त्रिपुरारिस् त्रिलोचनः
महाकालेति विख्यातः सर्वकामप्रदः शिवः शिवकुण्डे नरः स्नात्वा विधिवत् पापनाशने
देवान् पितॄन् ऋषींश् चैव संतर्प्य विधिवद् बुधः गत्वा शिवालयं पश्चात् कृत्वा तं त्रिः प्रदक्षिणम्
प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः स्नानैः पुष्पैस् तथा गन्धैर् धूपैर् दीपैश् च भक्तितः
नैवेद्यैर् उपहारैश् च गीतवाद्यैः प्रदक्षिणैः दण्डवत्प्रणिपातैश् च नृत्यैः स्तोत्रैश् च शंकरम्
संपूज्य विधिवद् भक्त्या महाकालं सकृच् छिवम् अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः
पापैः सर्वैर् विनिर्मुक्तो विमानैः सार्वकामिकैः आरुह्य त्रिदिवं याति यत्र शंभोर् निकेतनम्
दिव्यरूपधरः श्रीमान् दिव्यालंकारभूषितः भुङ्क्ते तत्र वरान् भोगान् यावद् आभूतसंप्लवम्
शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः पुण्यक्षयाद् इहायातः प्रवरे ब्राह्मणे कुले