अवन्ती नाम नगरी मालवे भुवि विश्रुता बभूव तस्य नृपतेः पृथिवी ककुदोपमा
हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा दृढयन्त्रार्गलद्वारा परिखाभिर् अलंकृता
नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया रथ्यापणवती रम्या सुविभक्तचतुष्पथा
गृहगोपुरसंबाधा वीथीभिः समलंकृता राजहंसनिभैः शुभ्रैश् चित्रग्रीवैर् मनोहरैः
अनेकशतसाहस्रैः प्रासादैः समलंकृता यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना
नानावर्णपताकाभिर् ध्वजैश् च समलंकृता हस्त्यश्वरथसंकीर्णा पदातिगणसंकुला
नानायोधसमाकीर्णा नानाजनपदैर् युता ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चैव द्विजातिभिः
समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलंकृता न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः
न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रियः
क्रीडन्ति स्म दिवा रात्रौ हृष्टास् तत्र पृथक् पृथक् सुवेषाः पुरुषास् तत्र दृश्यन्ते मृष्टकुण्डलाः
सुरूपाः सुगुणाश् चैव दिव्यालंकारभूषिताः कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः
सुकेशाः सुकपोलाश् च सुमुखाः श्मश्रुधारिणः ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम्
दातारः सर्वरत्नानां भोक्तारः सर्वसंपदाम् स्त्रियस् तत्र मुनिश्रेष्ठा दृश्यन्ते सुमनोहराः
हंसवारणगामिन्यः प्रफुल्लाम्भोजलोचनाः सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः
सुकेशाश् चारुवदनाः सुकपोलाः स्थिरालकाः हावभावानतग्रीवाः कर्णाभरणभूषिताः
बिम्बौष्ठ्यो रञ्जितमुखास् ताम्बूलेन विराजिताः सुवर्णाभरणोपेताः सर्वालंकारभूषिताः
श्यामावदाताः सुश्रोण्यः काञ्चीनूपुरनादिताः दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः
विदग्धाः सुभगाः कान्ताश् चार्वङ्ग्यः प्रियदर्शनाः रूपलावण्यसंयुक्ताः सर्वाः प्रहसिताननाः
क्रीडन्त्यश् च मदोन्मत्ताः सभासु चत्वरेषु च गीतवाद्यकथालापै रमयन्त्यश् च ताः स्त्रियः
वारमुख्याश् च दृश्यन्ते नृत्यगीतविशारदाः प्रेक्षणालापकुशलाः सर्वयोषिद्गुणान्विताः
अन्याश् च तत्र दृश्यन्ते गुणाचार्याः कुलस्त्रियः पतिव्रताश् च सुभगा गुणैः सर्वैर् अलंकृताः
वनैश् चोपवनैः पुण्यैर् उद्यानैश् च मनोरमैः देवतायतनैर् दिव्यैर् नानाकुसुमशोभितैः
शालैस् तालैस् तमालैश् च बकुलैर् नागकेसरैः पिप्पलैः कर्णिकारैश् च चन्दनागुरुचम्पकैः
पुंनागैर् नारिकेरैश् च पनसैः सरलद्रुमैः नारङ्गैर् लकुचैर् लोध्रैः सप्तपर्णैः शुभाञ्जनैः
चूतबिल्वकदम्बैश् च शिंशपैर् धवखादिरैः पाटलाशोकतगरैः करवीरैः सितेतरैः
पीतार्जुनकभल्लातैः सिद्धैर् आम्रातकैस् तथा न्यग्रोधाश्वत्थकाश्मर्यैः पलाशैर् देवदारुभिः
मन्दारैः पारिजातैश् च तिन्तिडीकविभीतकैः प्राचीनामलकैः प्लक्षैर् जम्बूशिरीषपादपैः
कालेयैः काञ्चनारैश् च मधुजम्बीरतिन्दुकैः खर्जूरागस्त्यबकुलैः शाखोटकहरीतकैः
कङ्कोलैर् मुचुकुन्दैश् च हिन्तालैर् बीजपूरकैः केतकीवनखण्डैश् च अतिमुक्तैः सकुब्जकैः
मल्लिकाकुन्दबाणैश् च कदलीखण्डमण्डितैः मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः