वल्लभो नरनारीणां पौर्णमास्यां यथा शशी आदित्य इव दुष्प्रेक्ष्यः शत्रुसंघभयंकरः
वैष्णवः सत्त्वसंपन्नो जितक्रोधो जितेन्द्रियः अध्येता योगसांख्यानां मुमुक्षुर् धर्मतत्परः
एवं स पालयन् पृथ्वीं राजा सर्वगुणाकरः तस्य बुद्धिः समुत्पन्ना हरेर् आराधनं प्रति
कथम् आराधयिष्यामि देवदेवं जनार्दनम् कस्मिन् क्षेत्रे ऽथवा तीर्थे नदीतीरे तथाश्रमे
एवं चिन्तापरः सो ऽथ निरीक्ष्य मनसा महीम् आलोक्य सर्वतीर्थानि क्षेत्राण्य् अथ पुराण्य् अपि
तानि सर्वाणि संत्यज्य जगामायतनं पुनः विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम्
स गत्वा तत् क्षेत्रवरं समृद्धबलवाहनः अयजच् चाश्वमेधेन विधिवद् भूरिदक्षिणः
कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् तत्र संकर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान्
पञ्चतीर्थं च विधिवत् कृत्वा तत्र महीपतिः स्नानं दानं तपो होमं देवताप्रेक्षणं तथा
भक्त्या चाराध्य विधिवत् प्रत्यहं पुरुषोत्तमम् प्रसादाद् देवदेवस्य ततो मोक्षम् अवाप्तवान्
मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः सागरे चेन्द्रद्युम्नाख्ये स्नात्वा मोक्षं लभेद् ध्रुवम्
कस्मात् स नृपतिः पूर्वम् इन्द्रद्युम्नो जगत्पतिः जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम्
गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः वाजिमेधेन विधिवद् इष्टवान् पुरुषोत्तमम्
कथं स सर्वफलदे क्षेत्रे परमदुर्लभे प्रासादं कारयाम् आस चेष्टं त्रैलोक्यविश्रुतम्
कथं स कृष्णं रामं च सुभद्रां च प्रजापते निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान् कथम्
कथं तत्र महीपालः प्रासादे भुवनोत्तमे स्थापयाम् आस मतिमान् कृष्णादींस् त्रिदशार्चितान्
एतत् सर्वं सुरश्रेष्ठ विस्तरेण यथातथम् वक्तुम् अर्हस्य् अशेषेण चरितं तस्य धीमतः
न तृप्तिम् अधिगच्छामस् तव वाक्यामृतेन वै श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः
साधु साधु द्विजश्रेष्ठा यत् पृच्छध्वं पुरातनम् सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम्
वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे शृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः
अवन्ती नाम नगरी मालवे भुवि विश्रुता बभूव तस्य नृपतेः पृथिवी ककुदोपमा
हृष्टपुष्टजनाकीर्णा दृढप्राकारतोरणा दृढयन्त्रार्गलद्वारा परिखाभिर् अलंकृता
नानावणिक्समाकीर्णा नानाभाण्डसुविक्रिया रथ्यापणवती रम्या सुविभक्तचतुष्पथा
गृहगोपुरसंबाधा वीथीभिः समलंकृता राजहंसनिभैः शुभ्रैश् चित्रग्रीवैर् मनोहरैः
अनेकशतसाहस्रैः प्रासादैः समलंकृता यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना
नानावर्णपताकाभिर् ध्वजैश् च समलंकृता हस्त्यश्वरथसंकीर्णा पदातिगणसंकुला
नानायोधसमाकीर्णा नानाजनपदैर् युता ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चैव द्विजातिभिः
समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलंकृता न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः
न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रियः
क्रीडन्ति स्म दिवा रात्रौ हृष्टास् तत्र पृथक् पृथक् सुवेषाः पुरुषास् तत्र दृश्यन्ते मृष्टकुण्डलाः