स्वधर्मनिरतैर् वर्णैस् तथान्यैः समलंकृतम् हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम्
अशेषविद्यानिलयं सर्वधर्मगुणाकरम् एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम्
आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः यावद् उत्कलमर्यादा दिक् क्रमेण प्रकीर्तिता
तावत् कृष्णप्रसादेन देशः पुण्यतमो हि सः यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्तमः
जगद्व्यापी जगन्नाथस् तत्र सर्वं प्रतिष्ठितम् अहं रुद्रश् च शक्रश् च देवाश् चाग्निपुरोगमाः
निवसामो मुनिश्रेष्ठास् तस्मिन् देशे सदा वयम् गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः
यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः ऋषयो वालखिल्याश् च कश्यपाद्याः प्रजेश्वराः
सुपर्णाः किंनरा नागास् तथान्ये स्वर्गवासिनः साङ्गाश् च चतुरो वेदाः शास्त्राणि विविधानि च
इतिहासपुराणानि यज्ञाश् च वरदक्षिणाः नद्यश् च विविधाः पुण्यास् तीर्थान्य् आयतनानि च
सागराश् च तथा शैलास् तस्मिन् देशे व्यवस्थिताः एवं पुण्यतमे देशे देवर्षिपितृसेविते
सर्वोपभोगसहिते वासः कस्य न रोचते श्रेष्ठत्वं कस्य देशस्य किं चान्यद् अधिकं ततः
आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः धन्यास् ते विबुधप्रख्या ये वसन्त्य् उत्कले नराः
तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये
ये वसन्त्य् उत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे सफलं जीवितं तेषाम् उत्कलानां सुमेधसाम्
ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम् चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम्
चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् सुनासं सुकपोलं च सुललाटं सुलक्षणम्
त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम्
पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः बभूव नृपतिः श्रीमान् इन्द्रद्युम्न इति श्रुतः
सत्यवादी शुचिर् दक्षः सर्वशास्त्रविशारदः रूपवान् सुभगः शूरो दाता भोक्ता प्रियंवदः
यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती
वल्लभो नरनारीणां पौर्णमास्यां यथा शशी आदित्य इव दुष्प्रेक्ष्यः शत्रुसंघभयंकरः
वैष्णवः सत्त्वसंपन्नो जितक्रोधो जितेन्द्रियः अध्येता योगसांख्यानां मुमुक्षुर् धर्मतत्परः
एवं स पालयन् पृथ्वीं राजा सर्वगुणाकरः तस्य बुद्धिः समुत्पन्ना हरेर् आराधनं प्रति
कथम् आराधयिष्यामि देवदेवं जनार्दनम् कस्मिन् क्षेत्रे ऽथवा तीर्थे नदीतीरे तथाश्रमे
एवं चिन्तापरः सो ऽथ निरीक्ष्य मनसा महीम् आलोक्य सर्वतीर्थानि क्षेत्राण्य् अथ पुराण्य् अपि
तानि सर्वाणि संत्यज्य जगामायतनं पुनः विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम्
स गत्वा तत् क्षेत्रवरं समृद्धबलवाहनः अयजच् चाश्वमेधेन विधिवद् भूरिदक्षिणः
कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम् तत्र संकर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान्
पञ्चतीर्थं च विधिवत् कृत्वा तत्र महीपतिः स्नानं दानं तपो होमं देवताप्रेक्षणं तथा
भक्त्या चाराध्य विधिवत् प्रत्यहं पुरुषोत्तमम् प्रसादाद् देवदेवस्य ततो मोक्षम् अवाप्तवान्