प्रियपुत्रैश् चातकैश् च तथान्यैर् मधुरस्वरैः श्रोत्ररम्यैः प्रियकरैः कूजद्भिश् चार्वधिष्ठितैः
केतकीवनखण्डैश् च अतिमुक्तैः सकुब्जकैः मालतीकुन्दबाणैश् च करवीरैः सितेतरैः
जम्बीरकरुणाङ्कोलैर् दाडिमैर् बीजपूरकैः मातुलुङ्गैः पूगफलैर् हिन्तालैः कदलीवनैः
अन्यैश् च विविधैर् वृक्षैः पुष्पैश् चान्यैर् मनोहरैः लतावितानगुल्मैश् च विविधैश् च जलाशयैः
दीर्घिकाभिस् तडागैश् च पुष्करिणीभिश् च वापिभिः नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः
कह्लारैः कमलैश् चापि आचितानि समन्ततः कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः
कारण्डवैः प्लवैर् हंसैः कूर्मैर् मत्स्यैश् च मद्गुभिः दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः
एतैश् चान्यैश् च कूजद्भिः समन्ताज् जलचारिभिः खगैर् जलचरैश् चान्यैः कुसुमैश् च जलोद्भवैः
एवं नानाविधैर् वृक्षैः पुष्पैः स्थलजलोद्भवैः ब्रह्मचारिगृहस्थैश् च वानप्रस्थैश् च भिक्षुभिः
स्वधर्मनिरतैर् वर्णैस् तथान्यैः समलंकृतम् हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम्
अशेषविद्यानिलयं सर्वधर्मगुणाकरम् एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम्
आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः यावद् उत्कलमर्यादा दिक् क्रमेण प्रकीर्तिता
तावत् कृष्णप्रसादेन देशः पुण्यतमो हि सः यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्तमः
जगद्व्यापी जगन्नाथस् तत्र सर्वं प्रतिष्ठितम् अहं रुद्रश् च शक्रश् च देवाश् चाग्निपुरोगमाः
निवसामो मुनिश्रेष्ठास् तस्मिन् देशे सदा वयम् गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः
यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः ऋषयो वालखिल्याश् च कश्यपाद्याः प्रजेश्वराः
सुपर्णाः किंनरा नागास् तथान्ये स्वर्गवासिनः साङ्गाश् च चतुरो वेदाः शास्त्राणि विविधानि च
इतिहासपुराणानि यज्ञाश् च वरदक्षिणाः नद्यश् च विविधाः पुण्यास् तीर्थान्य् आयतनानि च
सागराश् च तथा शैलास् तस्मिन् देशे व्यवस्थिताः एवं पुण्यतमे देशे देवर्षिपितृसेविते
सर्वोपभोगसहिते वासः कस्य न रोचते श्रेष्ठत्वं कस्य देशस्य किं चान्यद् अधिकं ततः
आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः धन्यास् ते विबुधप्रख्या ये वसन्त्य् उत्कले नराः
तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये
ये वसन्त्य् उत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे सफलं जीवितं तेषाम् उत्कलानां सुमेधसाम्
ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम् चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम्
चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम् सुनासं सुकपोलं च सुललाटं सुलक्षणम्
त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम्
पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः बभूव नृपतिः श्रीमान् इन्द्रद्युम्न इति श्रुतः
सत्यवादी शुचिर् दक्षः सर्वशास्त्रविशारदः रूपवान् सुभगः शूरो दाता भोक्ता प्रियंवदः
यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती