अन्याश् च तत्र तिष्ठन्ति विरजे लोकमातरः सर्वपापहरा देव्यो वरदा भक्तिवत्सलाः
आस्ते वैतरणी तत्र सर्वपापहरा नदी यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते
आस्ते स्वयंभूस् तत्रैव क्रोडरूपी हरिः स्वयम् दृष्ट्वा प्रणम्य तं भक्त्या परं विष्णुं व्रजन्ति ते
कापिले गोग्रहे सोमे तीर्थे चालाबुसंज्ञिते मृत्युंजये क्रोडतीर्थे वासुके सिद्धकेश्वरे
तीर्थेष्व् एतेषु मतिमान् विरजे संयतेन्द्रियः गत्वाष्टतीर्थं विधिवत् स्नात्वा देवान् प्रणम्य च
सर्वपापविनिर्मुक्तो विमानवरम् आस्थितः उपगीयमानो गन्धर्वैर् मम लोके महीयते
विरजे यो मम क्षेत्रे पिण्डदानं करोति वै स करोत्य् अक्षयां तृप्तिं पितॄणां नात्र संशयः
मम क्षेत्रे मुनिश्रेष्ठा विरजे ये कलेवरम् परित्यजन्ति पुरुषास् ते मोक्षं प्राप्नुवन्ति वै
स्नात्वा यः सागरे मर्त्यो दृष्ट्वा च कपिलं हरिम् पश्येद् देवीं च वाराहीं स याति त्रिदशालयम्
सन्ति चान्यानि तीर्थानि पुण्यान्य् आयतनानि च तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै
समुद्रस्योत्तरे तीरे तस्मिन् देशे द्विजोत्तमाः आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम्
सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम् दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम्
अशोकार्जुनपुंनागैर् बकुलैः सरलद्रुमैः पनसैर् नारिकेलैश् च शालैस् तालैः कपित्थकैः
चम्पकैः कर्णिकारैश् च चूतबिल्वैः सपाटलैः कदम्बैः कोविदारैश् च लकुचैर् नागकेसरैः
प्राचीनामलकैर् लोध्रैर् नारङ्गैर् धवखादिरैः सर्जभूर्जाश्वकर्णैश् च तमालैर् देवदारुभिः
मन्दारैः पारिजातैश् च न्यग्रोधागुरुचन्दनैः खर्जूराम्रातकैः सिद्धैर् मुचुकुन्दैः सकिंशुकैः
अश्वत्थैः सप्तपर्णैश् च मधुधारशुभाञ्जनैः शिंशपामलकैर् नीपैर् निम्बतिन्दुविभीतकैः
सर्वर्तुफलगन्धाढ्यैः सर्वर्तुकुसुमोज्ज्वलैः मनोह्लादकरैः शुभ्रैर् नानाविहगनादितैः
श्रोत्ररम्यैः सुमधुरैर् बलनिर्मदनेरितैः मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः
चकोरैः शतपत्त्रैश् च भृङ्गराजैस् तथा शुकैः कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः
प्रियपुत्रैश् चातकैश् च तथान्यैर् मधुरस्वरैः श्रोत्ररम्यैः प्रियकरैः कूजद्भिश् चार्वधिष्ठितैः
केतकीवनखण्डैश् च अतिमुक्तैः सकुब्जकैः मालतीकुन्दबाणैश् च करवीरैः सितेतरैः
जम्बीरकरुणाङ्कोलैर् दाडिमैर् बीजपूरकैः मातुलुङ्गैः पूगफलैर् हिन्तालैः कदलीवनैः
अन्यैश् च विविधैर् वृक्षैः पुष्पैश् चान्यैर् मनोहरैः लतावितानगुल्मैश् च विविधैश् च जलाशयैः
दीर्घिकाभिस् तडागैश् च पुष्करिणीभिश् च वापिभिः नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः
कह्लारैः कमलैश् चापि आचितानि समन्ततः कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः
कारण्डवैः प्लवैर् हंसैः कूर्मैर् मत्स्यैश् च मद्गुभिः दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः
एतैश् चान्यैश् च कूजद्भिः समन्ताज् जलचारिभिः खगैर् जलचरैश् चान्यैः कुसुमैश् च जलोद्भवैः
एवं नानाविधैर् वृक्षैः पुष्पैः स्थलजलोद्भवैः ब्रह्मचारिगृहस्थैश् च वानप्रस्थैश् च भिक्षुभिः