नृत्यजप्यनमस्कारैर् जयशब्दैः प्रदक्षिणैः एवं संपूज्य विधिवद् देवदेवम् उमापतिम्
सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः कुलैकविंशम् उद्धृत्य दिव्याभरणभूषिताः
सौवर्णेन विमानेन किङ्किणीजालमालिना उपगीयमानो गन्धर्वैर् अप्सरोभिर् अलंकृतः
उद्द्योतयन् दिशः सर्वाः शिवलोकं स गच्छति भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम्
तल्लोकवासिभिः सार्धं यावद् आभूतसंप्लवम् ततस् तस्माद् इहायातः पृथिव्यां पुण्यसंक्षये
जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः योगं पाशुपतं प्राप्य ततो मोक्षम् अवाप्नुयात्
शयनोत्थापने चैव संक्रान्त्याम् अयने तथा अशोकाख्यां तथाष्टम्यां पवित्रारोपणे तथा
ये च पश्यन्ति तं देवं कृत्तिवाससम् उत्तमम् विमानेनार्कवर्णेन शिवलोकं व्रजन्ति ते
सर्वकाले ऽपि तं देवं ये पश्यन्ति सुमेधसः ते ऽपि पापविनिर्मुक्ताः शिवलोकं व्रजन्ति वै
देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा योजनद्वितयं सार्धं क्षेत्रं तद् भुक्तिमुक्तिदम्
तस्मिन् क्षेत्रवरे लिङ्गं भास्करेश्वरसंज्ञितम् पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम्
आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम् सर्वपापविनिर्मुक्ता विमानवरम् आस्थिताः
उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते तिष्ठन्ति तत्र मुदिताः कल्पम् एकं द्विजोत्तमाः
भुक्त्वा तु विपुलान् भोगाञ् शिवलोके मनोरमान् पुण्यक्षयाद् इहायाता जायन्ते प्रवरे कुले
अथवा योगिनां गेहे वेदवेदाङ्गपारगाः उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः
मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः योगं शंभोर् वरं प्राप्य ततो मोक्षं व्रजन्ति ते
तस्मिन् क्षेत्रवरे पुण्ये लिङ्गं यद् दृश्यते द्विजाः पूज्यापूज्यं च सर्वत्र वने रथ्यान्तरे ऽपि वा
चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति दृष्ट्वा तल् लिङ्गम् अव्यग्रः श्रद्धया सुसमाहितः
स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर् मनोहरैः धूपैर् दीपैः सनैवेद्यैर् नमस्कारैस् तथा स्तवैः
दण्डवत्प्रणिपातैश् च नृत्यगीतादिभिस् तथा संपूज्यैवं विधानेन शिवलोकं व्रजेन् नरः
नारी वा द्विजशार्दूलाः संपूज्य श्रद्धयान्विता पूर्वोक्तं फलम् आप्नोति नात्र कार्या विचारणा
कः शक्नोति गुणान् वक्तुं समग्रान् मुनिसत्तमाः तस्य क्षेत्रवरस्याथ ऋते देवान् महेश्वरात्
तस्मिन् क्षेत्रोत्तमे गत्वा श्रद्धयाश्रद्धयापि वा माधवादिषु मासेषु नरो वा यदि वाङ्गना
यस्मिन् यस्मिंस् तिथौ विप्राः स्नात्वा बिन्दुसरोम्भसि पश्येद् देवं विरूपाक्षं देवीं च वरदां शिवाम्
गणं चण्डं कार्त्तिकेयं गणेशं वृषभं तथा कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति
स्नात्वा च कापिले तीर्थे विधिवत् पापनाशने प्राप्नोत्य् अभिमतान् कामाञ् शिवलोकं स गच्छति
यः स्तम्भ्यं तत्र विधिवत् करोति नियतेन्द्रियः कुलैकविंशम् उद्धृत्य शिवलोकं स गच्छति
एकाम्रके शिवक्षेत्रे वाराणसीसमे शुभे स्नानं करोति यस् तत्र मोक्षं स लभते ध्रुवम्
विरजे विरजा माता ब्रह्माणी संप्रतिष्ठिता यस्याः संदर्शनान् मर्त्यः पुनात्य् आसप्तमं कुलम्
सकृद् दृष्ट्वा तु तां देवीं भक्त्यापूज्य प्रणम्य च नरः स्ववंशम् उद्धृत्य मम लोकं स गच्छति