देवान् ऋषीन् मनुष्यांश् च पितॄन् संतर्प्य वाग्यतः तिलोदकेन विधिना नामगोत्रविधानवित्
स्नात्वैवं विधिवत् तत्र सो ऽश्वमेधफलं लभेत् ग्रहोपरागे विषुवे संक्रान्त्याम् अयने तथा
युगादिषु षडशीत्यां तथान्यत्र शुभे तिथौ ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम्
अन्यतीर्थाच् छतगुणं फलं ते प्राप्नुवन्ति वै पिण्डं ये संप्रयच्छन्ति पितृभ्यः सरसस् तटे
पितॄणाम् अक्षयां तृप्तिं ते कुर्वन्ति न संशयः ततः शंभोर् गृहं गत्वा वाग्यतः संयतेन्द्रियः
प्रविश्य पूजयेच् छर्वं कृत्वा तं त्रिः प्रदक्षिणम् घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः
चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च ततः संपूजयेद् देवं चन्द्रमौलिम् उमापतिम्
पुष्पैर् नानाविधैर् मेध्यैर् बिल्वार्ककमलादिभिः आगमोक्तेन मन्त्रेण वेदोक्तेन च शंकरम्
अदीक्षितस् तु नाम्नैव मूलमन्त्रेण चार्चयेत् एवं संपूज्य तं देवं गन्धपुष्पानुरागिभिः
धूपदीपैश् च नैवेद्यैर् उपहारैस् तथा स्तवैः दण्डवत्प्रणिपातैश् च गीतैर् वाद्यैर् मनोहरैः
नृत्यजप्यनमस्कारैर् जयशब्दैः प्रदक्षिणैः एवं संपूज्य विधिवद् देवदेवम् उमापतिम्
सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः कुलैकविंशम् उद्धृत्य दिव्याभरणभूषिताः
सौवर्णेन विमानेन किङ्किणीजालमालिना उपगीयमानो गन्धर्वैर् अप्सरोभिर् अलंकृतः
उद्द्योतयन् दिशः सर्वाः शिवलोकं स गच्छति भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम्
तल्लोकवासिभिः सार्धं यावद् आभूतसंप्लवम् ततस् तस्माद् इहायातः पृथिव्यां पुण्यसंक्षये
जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः योगं पाशुपतं प्राप्य ततो मोक्षम् अवाप्नुयात्
शयनोत्थापने चैव संक्रान्त्याम् अयने तथा अशोकाख्यां तथाष्टम्यां पवित्रारोपणे तथा
ये च पश्यन्ति तं देवं कृत्तिवाससम् उत्तमम् विमानेनार्कवर्णेन शिवलोकं व्रजन्ति ते
सर्वकाले ऽपि तं देवं ये पश्यन्ति सुमेधसः ते ऽपि पापविनिर्मुक्ताः शिवलोकं व्रजन्ति वै
देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा योजनद्वितयं सार्धं क्षेत्रं तद् भुक्तिमुक्तिदम्
तस्मिन् क्षेत्रवरे लिङ्गं भास्करेश्वरसंज्ञितम् पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम्
आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम् सर्वपापविनिर्मुक्ता विमानवरम् आस्थिताः
उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते तिष्ठन्ति तत्र मुदिताः कल्पम् एकं द्विजोत्तमाः
भुक्त्वा तु विपुलान् भोगाञ् शिवलोके मनोरमान् पुण्यक्षयाद् इहायाता जायन्ते प्रवरे कुले
अथवा योगिनां गेहे वेदवेदाङ्गपारगाः उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः
मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः योगं शंभोर् वरं प्राप्य ततो मोक्षं व्रजन्ति ते
तस्मिन् क्षेत्रवरे पुण्ये लिङ्गं यद् दृश्यते द्विजाः पूज्यापूज्यं च सर्वत्र वने रथ्यान्तरे ऽपि वा
चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति दृष्ट्वा तल् लिङ्गम् अव्यग्रः श्रद्धया सुसमाहितः
स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर् मनोहरैः धूपैर् दीपैः सनैवेद्यैर् नमस्कारैस् तथा स्तवैः
दण्डवत्प्रणिपातैश् च नृत्यगीतादिभिस् तथा संपूज्यैवं विधानेन शिवलोकं व्रजेन् नरः