सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः
क्रीडन्ति ताः सदा तत्र स्त्रियश् चाप्सरसोपमाः स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः
पुरुषास् तत्र दृश्यन्ते रूपयौवनगर्विताः सर्वलक्षणसंपन्नाः सुमृष्टमणिकुण्डलाः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मुनिसत्तमाः स्वधर्मनिरतास् तत्र निवसन्ति सुधार्मिकाः
अन्याश् च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः घृताचीमेनकातुल्यास् तथा समतिलोत्तमाः
उर्वशीसदृशाश् चैव विप्रचित्तिनिभास् तथा विश्वाचीसहजन्याभाः प्रम्लोचासदृशास् तथा
सर्वास् ताः प्रियवादिन्यः सर्वा विहसिताननाः कलाकौशलसंयुक्ताः सर्वास् ता गुणसंयुताः
एवं पण्यस्त्रियस् तत्र नृत्यगीतविशारदाः निवसन्ति मुनिश्रेष्ठाः सर्वस्त्रीगुणगर्विताः
प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः
यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः
न रोगिणो न मलिना न कदर्या न मायिनः न रूपहीना दुर्वृत्ता न परद्रोहकारिणः
तिष्ठन्ति मानवास् तत्र क्षेत्रे जगति विश्रुते सर्वत्र सुखसंचारं सर्वसत्त्वसुखावहम्
नानाजनसमाकीर्णं सर्वसस्यसमन्वितम् कर्णिकारैश् च पनसैश् चम्पकैर् नागकेसरैः
पाटलाशोकबकुलैः कपित्थैर् बहुलैर् धवैः चूतनिम्बकदम्बैश् च तथान्यैः पुष्पजातिभिः
नीपकैर् धवखदिरैर् लताभिश् च विराजितम् शालैस् तालैस् तमालैश् च नारिकेलैः शुभाञ्जनैः
अर्जुनैः समपर्णैश् च कोविदारैः सपिप्पलैः लकुचैः सरलैर् लोध्रैर् हिन्तालैर् देवदारुभिः
पलाशैर् मुचुकुन्दैश् च पारिजातैः सकुब्जकैः कदलीवनखण्डैश् च जम्बूपूगफलैस् तथा
केतकीकरवीरैश् च अतिमुक्तैश् च किंशुकैः मन्दारकुन्दपुष्पैश् च तथान्यैः पुष्पजातिभिः
नानापक्षिरुतैः सेव्यैर् उद्यानैर् नन्दनोपमैः फलभारानतैर् वृक्षैः सर्वर्तुकुसुमोत्करैः
चकोरैः शतपत्त्रैश् च भृङ्गराजैश् च कोकिलैः कलविङ्कैर् मयूरैश् च प्रियपुत्रैः शुकैस् तथा
जीवंजीवकहारीतैश् चातकैर् वनवेष्टितैः नानापक्षिगणैश् चान्यैः कूजद्भिर् मधुरस्वरैः
दीर्घिकाभिस् तडागैश् च पुष्करिणीभिश् च वापिभिः नानाजलाशयैश् चान्यैः पद्मिनीखण्डमण्डितैः
कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः
कारण्डवैः प्लवैर् हंसैस् तथान्यैर् जलचारिभिः एवं नानाविधैर् वृक्षैः पुष्पैर् नानाविधैर् वरैः
नानाजलाशयैः पुण्यैः शोभितं तत् समन्ततः आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः
हिताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः पृथिव्यां यानि तीर्थानि सरितश् च सरांसि च
पुष्करिण्यस् तडागानि वाप्यः कूपाश् च सागराः तेभ्यः पूर्वं समाहृत्य जलबिन्दून् पृथक् पृथक्
सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह तीर्थं बिन्दुसरो नाम तस्मिन् क्षेत्रे द्विजोत्तमाः
चकार ऋषिभिः सार्धं तेन बिन्दुसरः स्मृतम् अष्टम्यां बहुले पक्षे मार्गशीर्षे द्विजोत्तमाः
यस् तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः विधिवद् बिन्दुसरसि स्नात्वा श्रद्धासमन्वितः