ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुंगवाः प्रशशंसुस् तदा हृष्टा रोमाञ्चिततनूरुहाः
अहो देवस्य माहात्म्यं त्वया शंभोः प्रकीर्तितम् दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा
एकाम्रकं क्षेत्रवरं वक्तुम् अर्हसि सांप्रतम् श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः
तेषां तद् वचनं श्रुत्वा लोकनाथश् चतुर्मुखः प्रोवाच शंभोस् तत् क्षेत्रं भूतले दुष्कृतच्छदम्
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम्
लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम्
एकाम्रवृक्षस् तत्रासीत् पुरा कल्पे द्विजोत्तमाः नाम्ना तस्यैव तत् क्षेत्रम् एकाम्रकम् इति श्रुतम्
हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम्
गृहगोपुरसंबाधं त्रिकचाद्वारभूषितम् नानावणिक्समाकीर्णं नानारत्नोपशोभितम्
पुराट्टालकसंयुक्तं रथिभिः समलंकृतम् राजहंसनिभैः शुभ्रैः प्रासादैर् उपशोभितम्
मार्गगद्वारसंयुक्तं सितप्राकारशोभितम् रक्षितं शस्त्रसंघैश् च परिखाभिर् अलंकृतम्
सितरक्तैस् तथा पीतैः कृष्णश्यामैश् च वर्णकैः समीरणोद्धताभिश् च पताकाभिर् अलंकृतम्
नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः वीणावेणुमृदङ्गैश् च क्षेपणीभिर् अलंकृतम्
देवतायतनैर् दिव्यैः प्राकारोद्यानमण्डितैः पूजाविचित्ररचितैः सर्वत्र समलंकृतम्
स्त्रियः प्रमुदितास् तत्र दृश्यन्ते तनुमध्यमाः हारैर् अलंकृतग्रीवाः पद्मपत्त्रायतेक्षणाः
पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः
सुकेश्यश् चारुजघनाः कर्णान्तायतलोचनाः सर्वलक्षणसंपन्नाः सर्वाभरणभूषिताः
दिव्यवस्त्रधराः शुभ्राः काश्चित् काञ्चनसंनिभाः हंसवारणगामिन्यः कुचभारावनामिताः
दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः मदालसाश् च सुश्रोण्यो नित्यं प्रहसिताननाः
ईषद्विस्पष्टदशना बिम्बौष्ठा मधुरस्वराः ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः
सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः
क्रीडन्ति ताः सदा तत्र स्त्रियश् चाप्सरसोपमाः स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः
पुरुषास् तत्र दृश्यन्ते रूपयौवनगर्विताः सर्वलक्षणसंपन्नाः सुमृष्टमणिकुण्डलाः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मुनिसत्तमाः स्वधर्मनिरतास् तत्र निवसन्ति सुधार्मिकाः
अन्याश् च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः घृताचीमेनकातुल्यास् तथा समतिलोत्तमाः
उर्वशीसदृशाश् चैव विप्रचित्तिनिभास् तथा विश्वाचीसहजन्याभाः प्रम्लोचासदृशास् तथा
सर्वास् ताः प्रियवादिन्यः सर्वा विहसिताननाः कलाकौशलसंयुक्ताः सर्वास् ता गुणसंयुताः
एवं पण्यस्त्रियस् तत्र नृत्यगीतविशारदाः निवसन्ति मुनिश्रेष्ठाः सर्वस्त्रीगुणगर्विताः
प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः
यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः