यशःस्वर्गसुरैश्वर्यवित्तादिजयकाङ्क्षिभिः स्तोतव्यो भक्तिम् आस्थाय विद्याकामैश् च यत्नतः
व्याधितो दुःखितो दीनो नरो ग्रस्तो भयादिभिः राजकार्यनियुक्तो वा मुच्यते महतो भयात्
अनेनैव च देहेन गणानां च महेश्वरात् इह लोके सुखं प्राप्य गणराड् उपजायते
न यक्षा न पिशाचा वा न नागा न विनायकाः कुर्युर् विघ्नं गृहे तस्य यत्र संस्तूयते भवः
शृणुयाद् वा इदं नारी भक्त्याथ भवभाविता पितृपक्षे भर्तृपक्षे पूज्या भवति चैव ह
शृणुयाद् वा इदं सर्वं कीर्तयेद् वाप्य् अभीक्ष्णशः तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्य् अविघ्नतः
मनसा चिन्तितं यच् च यच् च वाचाप्य् उदाहृतम् सर्वं संपद्यते तस्य स्तवस्यास्यानुकीर्तनात्
देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य च बलिं विभजतः कृत्वा दमेन नियमेन च
ततः प्रयुक्तो गृह्णीयान् नामान्य् आशु यथाक्रमम् ईप्सितांल् लभते ऽप्य् अर्थान् कामान् भोगांश् च मानवः
मृतश् च स्वर्गम् आप्नोति स्त्रीसहस्रसमावृतः सर्वकामसुयुक्तो वा युक्तो वा सर्वपातकैः
पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते मृतश् च गणसायुज्यं पूज्यमानः सुरासुरैः
वृषेण विनियुक्तेन विमानेन विराजते आभूतसंप्लवस्थायी रुद्रस्यानुचरो भवेत्
इत्य् आह भगवान् व्यासः पराशरसुतः प्रभुः नैतद् वेदयते कश्चिन् नैतच् छ्राव्यं च कस्यचित्
श्रुत्वेमं परमं गुह्यं ये ऽपि स्युः पापयोनयः वैश्याः स्त्रियश् च शूद्राश् च रुद्रलोकम् अवाप्नुयुः
श्रावयेद् यश् च विप्रेभ्यः सदा पर्वसु पर्वसु रुद्रलोकम् अवाप्नोति द्विजो वै नात्र संशयः
श्रुत्वैवं वै मुनिश्रेष्ठाः कथां पापप्रणाशिनीम् रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः
पार्वत्याश् च तथा रोषं क्रोधं शंभोश् च दुःसहम् उत्पत्तिं वीरभद्रस्य भद्रकाल्याश् च संभवम्
दक्षयज्ञविनाशं च वीर्यं शंभोस् तथाद्भुतम् पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः
यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः हृष्टा बभूवुः संप्रीता विस्मिताश् च पुनः पुनः
पप्रच्छुश् च पुनर् व्यासं कथाशेषं तथा द्विजाः पृष्टः प्रोवाच तान् व्यासः क्षेत्रम् एकाम्रकं पुनः
ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुंगवाः प्रशशंसुस् तदा हृष्टा रोमाञ्चिततनूरुहाः
अहो देवस्य माहात्म्यं त्वया शंभोः प्रकीर्तितम् दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा
एकाम्रकं क्षेत्रवरं वक्तुम् अर्हसि सांप्रतम् श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः
तेषां तद् वचनं श्रुत्वा लोकनाथश् चतुर्मुखः प्रोवाच शंभोस् तत् क्षेत्रं भूतले दुष्कृतच्छदम्
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम्
लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम्
एकाम्रवृक्षस् तत्रासीत् पुरा कल्पे द्विजोत्तमाः नाम्ना तस्यैव तत् क्षेत्रम् एकाम्रकम् इति श्रुतम्
हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम्
गृहगोपुरसंबाधं त्रिकचाद्वारभूषितम् नानावणिक्समाकीर्णं नानारत्नोपशोभितम्
पुराट्टालकसंयुक्तं रथिभिः समलंकृतम् राजहंसनिभैः शुभ्रैः प्रासादैर् उपशोभितम्