तथैवम् अब्रवीद् वाक्यं त्रैलोक्याधिपतिर् भवः कृत्वाश्वासकरं वाक्यं सर्वज्ञो वाक्यसंहितम्
दक्ष दुःखं न कर्तव्यं यज्ञविध्वंसनं प्रति अहं यज्ञहनस् तुभ्यं दृष्टम् एतत् पुरानघ
भूयश् च त्वं वरम् इमं मत्तो गृह्णीष्व सुव्रत प्रसन्नसुमुखो भूत्वा ममैकाग्रमनाः शृणु
अश्वमेधसहस्रस्य वाजपेयशतस्य वै प्रजापते मत्प्रसादात् फलभागी भविष्यसि
वेदान् षडङ्गान् बुध्यस्व सांख्ययोगांश् च कृत्स्नशः तपश् च विपुलं तप्त्वा दुश्चरं देवदानवैः
अब्दैर् द्वादशभिर् युक्तं गूढम् अप्रज्ञनिन्दितम् वर्णाश्रमकृतैर् धर्मैर् विनीतं न क्वचित् क्वचित्
समागतं व्यवसितं पशुपाशविमोक्षणम् सर्वेषाम् आश्रमाणां च मया पाशुपतं व्रतम्
उत्पादितं दक्ष शुभं सर्वपापविमोचनम् अस्य चीर्णस्य यत् सम्यक् फलं भवति पुष्कलम् तच् चास्तु सुमहाभाग मानसस् त्यज्यतां ज्वरः
एवम् उक्त्वा तु देवेशः सपत्नीकः सहानुगः अदर्शनम् अनुप्राप्तो दक्षस्यामिततेजसः
अवाप्य च तथा भागं यथोक्तं चोमया भवः ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत् तदा
शान्त्यर्थं सर्वभूतानां शृणुध्वम् अथ वै द्विजाः शिखाभितापो नागानां पर्वतानां शिलाजतु
अपां तु नीलिकां विद्यान् निर्मोको भुजगेषु च खोरकः सौरभेयाणाम् ऊखरः पृथिवीतले
शुनाम् अपि च धर्मज्ञा दृष्टिप्रत्यवरोधनम् रन्ध्रागतम् अथाश्वानां शिखोद्भेदश् च बर्हिणाम्
नेत्ररागः कोकिलानां द्वेषः प्रोक्तो महात्मनाम् जनानाम् अपि भेदश् च सर्वेषाम् इति नः श्रुतम्
शुकानाम् अपि सर्वेषां हिक्किका प्रोच्यते ज्वरः शार्दूलेष्व् अथ वै विप्राः श्रमो ज्वर इहोच्यते
मानुषेषु च सर्वज्ञा ज्वरो नामैष कीर्तितः मरणे जन्मनि तथा मध्ये चापि निवेशितः
एतन् माहेश्वरं तेजो ज्वरो नाम सुदारुणः नमस्यश् चैव मान्यश् च सर्वप्राणिभिर् ईश्वरः
इमां ज्वरोत्पत्तिम् अदीनमानसः पठेत् सदा यः सुसमाहितो नरः विमुक्तरोगः स नरो मुदायुतो लभेत कामांश् च यथामनीषितान्
दक्षप्रोक्तं स्तवं चापि कीर्तयेद् यः शृणोति वा नाशुभं प्राप्नुयात् किंचिद् दीर्घम् आयुर् अवाप्नुयात्
यथा सर्वेषु देवेषु वरिष्ठो भगवान् भवः तथा स्तवो वरिष्ठो ऽयं स्तवानां दक्षनिर्मितः
यशःस्वर्गसुरैश्वर्यवित्तादिजयकाङ्क्षिभिः स्तोतव्यो भक्तिम् आस्थाय विद्याकामैश् च यत्नतः
व्याधितो दुःखितो दीनो नरो ग्रस्तो भयादिभिः राजकार्यनियुक्तो वा मुच्यते महतो भयात्
अनेनैव च देहेन गणानां च महेश्वरात् इह लोके सुखं प्राप्य गणराड् उपजायते
न यक्षा न पिशाचा वा न नागा न विनायकाः कुर्युर् विघ्नं गृहे तस्य यत्र संस्तूयते भवः
शृणुयाद् वा इदं नारी भक्त्याथ भवभाविता पितृपक्षे भर्तृपक्षे पूज्या भवति चैव ह
शृणुयाद् वा इदं सर्वं कीर्तयेद् वाप्य् अभीक्ष्णशः तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्य् अविघ्नतः
मनसा चिन्तितं यच् च यच् च वाचाप्य् उदाहृतम् सर्वं संपद्यते तस्य स्तवस्यास्यानुकीर्तनात्
देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य च बलिं विभजतः कृत्वा दमेन नियमेन च
ततः प्रयुक्तो गृह्णीयान् नामान्य् आशु यथाक्रमम् ईप्सितांल् लभते ऽप्य् अर्थान् कामान् भोगांश् च मानवः
मृतश् च स्वर्गम् आप्नोति स्त्रीसहस्रसमावृतः सर्वकामसुयुक्तो वा युक्तो वा सर्वपातकैः