गोनेता गोप्रचारश् च गोवृषेश्वरवाहनः त्रैलोक्यगोप्ता गोविन्दो गोप्ता गोगर्ग एव च
अखण्डचन्द्राभिमुखः सुमुखो दुर्मुखो ऽमुखः चतुर्मुखो बहुमुखो रणेष्व् अभिमुखः सदा
हिरण्यगर्भः शकुनिर् धनदो ऽर्थपतिर् विराट् अधर्महा महादक्षो दण्डधारो रणप्रियः
तिष्ठन् स्थिरश् च स्थाणुश् च निष्कम्पश् च सुनिश्चलः दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः
दुर्धरो दुर्वशो नित्यो दुर्दर्पो विजयो जयः शशः शशाङ्कनयनशीतोष्णः क्षुत् तृषा जरा
आधयो व्याधयश् चैव व्याधिहा व्याधिपश् च यः सह्यो यज्ञमृगव्याधो व्याधीनाम् आकरो ऽकरः
शिखण्डी पुण्डरीकश् च पुण्डरीकावलोकनः दण्डधृक् चक्रदण्डश् च रौद्रभागविनाशनः
विषपो ऽमृतपश् चैव सुरापः क्षीरसोमपः मधुपश् चापपश् चैव सर्वपश् च बलाबलः
वृषाङ्गराम्भो वृषभस् तथा वृषभलोचनः वृषभश् चैव विख्यातो लोकानां लोकसंस्कृतः
चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः अग्निष्टोमस् तथा देहो धर्मकर्मप्रसाधितः
न ब्रह्मा न च गोविन्दः पुराण-ऋषयो न च माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव
शिवा या मूर्तयः सूक्ष्मास् ते मह्यं यान्तु दर्शनम् ताभिर् मां सर्वतो रक्ष पिता पुत्रम् इवौरसम्
रक्ष मां रक्षणीयो ऽहं तवानघ नमो ऽस्तु ते भक्तानुकम्पी भगवान् भक्तश् चाहं सदा त्वयि
यः सहस्राण्य् अनेकानि पुंसाम् आवृत्य दुर्दृशाम् तिष्ठत्य् एकः समुद्रान्ते स मे गोप्तास्तु नित्यशः
यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः ज्योतिः पश्यन्ति युञ्जानास् तस्मै योगात्मने नमः
संभक्ष्य सर्वभूतानि युगान्ते समुपस्थिते यः शेते जलमध्यस्थस् तं प्रपद्ये ऽम्बुशायिनम्
प्रविश्य वदनं राहोर् यः सोमं पिबते निशि ग्रसत्य् अर्कं च स्वर्भानुर् भूत्वा सोमाग्निर् एव च
अङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् रक्षन्तु ते च मां नित्यं नित्यं चाप्याययन्तु माम्
येनाप्य् उत्पादिता गर्भा अपो भागगताश् च ये तेषां स्वाहा स्वधा चैव आप्नुवन्ति स्वदन्ति च
येन रोहन्ति देहस्थाः प्राणिनो रोदयन्ति च हर्षयन्ति न कृष्यन्ति नमस् तेभ्यस् तु नित्यशः
ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च
येषु पञ्चसु भूतेषु दिशासु विदिशासु च इन्द्रार्कयोर् मध्यगता ये च चन्द्रार्करश्मिषु
रसातलगता ये च ये च तस्मात् परं गताः नमस् तेभ्यो नमस् तेभ्यो नमस् तेभ्यस् तु सर्वशः
सर्वस् त्वं सर्वगो देवः सर्वभूतपतिर् भवः सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः
त्वम् एव चेज्यसे देव यज्ञैर् विविधदक्षिणैः त्वम् एव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः
अथवा मायया देव मोहितः सूक्ष्मया तव तस्मात् तु कारणाद् वापि त्वं मया न निमन्त्रितः
प्रसीद मम देवेश त्वम् एव शरणं मम त्वं गतिस् त्वं प्रतिष्ठा च न चान्यो ऽस्तीति मे मतिः
स्तुत्वैवं स महादेवं विरराम महामतिः भगवान् अपि सुप्रीतः पुनर् दक्षम् अभाषत
परितुष्टो ऽस्मि ते दक्ष स्तवेनानेन सुव्रत बहुना तु किम् उक्तेन मत्समीपं गमिष्यसि