यदा न शक्यते मोहाद् अवलेपाच् च पार्थिवः अपनेतुं तदा वेणस् ततः क्रुद्धा महर्षयः
तं निगृह्य महात्मानो विस्फुरन्तं महाबलम् ततो ऽस्य सव्यम् ऊरुं ते ममन्थुर् जातमन्यवः
तस्मिन् निमथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान् ह्रस्वो ऽतिमात्रः पुरुषः कृष्णश् चेति बभूव ह
स भीतः प्राञ्जलिर् भूत्वा तस्थिवान् द्विजसत्तमाः तम् अत्रिर् विह्वलं दृष्ट्वा निषीदेत्य् अब्रवीत् तदा
निषादवंशकर्तासौ बभूव वदतां वराः धीवरान् असृजच् चापि वेणकल्मषसंभवान्
ये चान्ये विन्ध्यनिलयास् तथा पर्वतसंश्रयाः अधर्मरुचयो विप्रास् ते तु वै वेणकल्मषाः
ततः पुनर् महात्मानः पाणिं वेणस्य दक्षिणम् अरणीम् इव संरब्धा ममन्थुर् जातमन्यवः
पृथुस् तस्मात् समुत्पन्नः कराज् ज्वलनसंनिभः दीप्यमानः स्ववपुषा साक्षाद् अग्निर् इव ज्वलन्
अथ सो ऽजगवं नाम धनुर् गृह्य महारवम् शरांश् च दिव्यान् रक्षार्थं कवचं च महाप्रभम्
तस्मिञ् जाते ऽथ भूतानि संप्रहृष्टानि सर्वशः समापेतुर् महाभागा वेणस् तु त्रिदिवं ययौ
समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना त्रातः स पुरुषव्याघ्रः पुंनाम्नो नरकात् तदा
तं समुद्राश् च नद्यश् च रत्नान्य् आदाय सर्वशः तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे
पितामहश् च भगवान् देवैर् आङ्गिरसैः सह स्थावराणि च भूतानि जङ्गमानि च सर्वशः
समागम्य तदा वैण्यम् अभ्यषिञ्चन् नराधिपम् महता राजराजेन प्रजास् तेनानुरञ्जिताः
सो ऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः आधिराज्ये तदा राज्ञां पृथुर् वैण्यः प्रतापवान्
पित्रापरञ्जितास् तस्य प्रजास् तेनानुरञ्जिताः अनुरागात् ततस् तस्य नाम राजाभ्यजायत
आपस् तस्तम्भिरे तस्य समुद्रम् अभियास्यतः पर्वताश् च ददुर् मार्गं ध्वजभङ्गश् च नाभवत्
अकृष्टपच्या पृथिवी सिध्यन्त्य् अन्नानि चिन्तनात् सर्वकामदुघा गावः पुटके पुटके मधु
एतस्मिन्न् एव काले तु यज्ञे पैतामहे शुभे सूतः सूत्यां समुत्पन्नः सौत्ये ऽहनि महामतिः
तस्मिन्न् एव महायज्ञे जज्ञे प्राज्ञो ऽथ मागधः पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः
ताव् ऊचुर् ऋषयः सर्वे स्तूयताम् एष पार्थिवः कर्मैतद् अनुरूपं वां पात्रं चायं नराधिपः
ताव् ऊचतुस् तदा सर्वांस् तान् ऋषीन् सूतमागधौ आवां देवान् ऋषींश् चैव प्रीणयावः स्वकर्मभिः
न चास्य विद्मो वै कर्म नाम वा लक्षणं यशः स्तोत्रं येनास्य कुर्याव राज्ञस् तेजस्विनो द्विजाः
ऋषिभिस् तौ नियुक्तौ तु भविष्यैः स्तूयताम् इति यानि कर्माणि कृतवान् पृथुः पश्चान् महाबलः
ततः प्रभृति वै लोके स्तवेषु मुनिसत्तमाः आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः
तयोः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः अनूपदेशं सूताय मगधं मागधाय च
तं दृष्ट्वा परमप्रीताः प्रजाः प्रोचुर् मनीषिणः वृत्तीनाम् एष वो दाता भविष्यति नराधिपः
ततो वैण्यं महात्मानं प्रजाः समभिदुद्रुवुः त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात् तदा
सो ऽभिद्रुतः प्रजाभिस् तु प्रजाहितचिकीर्षया धनुर् गृह्य पृषत्कांश् च पृथिवीम् आद्रवद् बली
ततो वैण्यभयत्रस्ता गौर् भूत्वा प्राद्रवन् मही तां पृथुर् धनुर् आदाय द्रवन्तीम् अन्वधावत