त्वम् एव ब्रह्मा विश्वेश अप्सु ब्रह्म वदन्ति ते सर्वस्य परमा योनिः सुधांशो ज्योतिषां निधिः
ऋक्सामानि तथौंकारम् आहुस् त्वां ब्रह्मवादिनः हायि हायि हरे हायि हुवाहावेति वासकृत्
गायन्ति त्वां सुरश्रेष्ठाः सामगा ब्रह्मवादिनः यजुर्मय ऋङ्मयश् च सामाथर्वयुतस् तथा
पठ्यसे ब्रह्मविद्भिस् त्वं कल्पोपनिषदां गणैः ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णाश्रमाश् च ये
त्वम् एवाश्रमसंघाश् च विद्युत् स्तनितम् एव च संवत्सरस् त्वम् ऋतवो मासा मासार्धम् एव च
कला काष्ठा निमेषाश् च नक्षत्राणि युगानि च वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च
सिंहो मृगाणां पतयस् तक्षकानन्तभोगिनाम् क्षीरोदो ह्य् उदधीनां च मन्त्राणां प्रणवस् तथा
वज्रं प्रहरणानां च व्रतानां सत्यम् एव च त्वम् एवेच्छा च द्वेषश् च रागो मोहः शमः क्षमा
व्यवसायो धृतिर् लोभः कामक्रोधौ जयाजयौ त्वं गदी त्वं शरी चापी खट्वाङ्गी मुद्गरी तथा
छेत्ता भेत्ता प्रहर्ता च नेता मन्तासि नो मतः दशलक्षणसंयुक्तो धर्मो ऽर्थः काम एव च
इन्दुः समुद्रः सरितः पल्वलानि सरांसि च लतावल्ल्यस् तृणौषध्यः पशवो मृगपक्षिणः
द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः आदिश् चान्तश् च मध्यश् च गायत्र्य् ओंकार एव च
हरितो लोहितः कृष्णो नीलः पीतस् तथा क्षणः कद्रुश् च कपिलो बभ्रुः कपोतो मच्छकस् तथा
सुवर्णरेता विख्यातः सुवर्णश् चाप्य् अथो मतः सुवर्णनामा च तथा सुवर्णप्रिय एव च
त्वम् इन्द्रश् च यमश् चैव वरुणो धनदो ऽनलः उत्फुल्लश् चित्रभानुश् च स्वर्भानुर् भानुर् एव च
होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः त्रिसौपर्णस् तथा ब्रह्मन् यजुषां शतरुद्रियम्
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् प्राणश् च त्वं रजश् च त्वं तमः सत्त्वयुतस् तथा
प्राणो ऽपानः समानश् च उदानो व्यान एव च उन्मेषश् च निमेषश् च क्षुत्तृङ्जृम्भा तथैव च
लोहिताङ्गश् च दंष्ट्री च महावक्त्रो महोदरः शुचिरोमा हरिच्छ्मश्रुर् ऊर्ध्वकेशश् चलाचलः
गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः मत्स्यो जालो जलो ऽजय्यो जलव्यालः कुटीचरः
विकालश् च सुकालश् च दुष्कालः कालनाशनः मृत्युश् चैवाक्षयो ऽन्तश् च क्षमामायाकरोत्करः
संवर्तो वर्तकश् चैव संवर्तकबलाहकौ घण्टाकी घण्टकी घण्टी चूडालो लवणोदधिः
ब्रह्मा कालाग्निवक्त्रश् च दण्डी मुण्डस् त्रिदण्डधृक् चतुर्युगश् चतुर्वेदश् चतुर्होत्रश् चतुष्पथः
चातुराश्रम्यनेता च चातुर्वर्ण्यकरश् च ह क्षराक्षरः प्रियो धूर्तो गणैर् गण्यो गणाधिपः
रक्तमाल्याम्बरधरो गिरीशो गिरिजाप्रियः शिल्पीशः शिल्पिनः श्रेष्ठः सर्वशिल्पिप्रवर्तकः
भगनेत्रान्तकश् चण्डः पूष्णो दन्तविनाशनः स्वाहा स्वधा वषट्कारो नमस्कार नमो ऽस्तु ते
गूढव्रतश् च गूढश् च गूढव्रतनिषेवितः तरणस् तारणश् चैव सर्वभूतेषु तारणः
धाता विधाता संधाता निधाता धारणो धरः तपो ब्रह्म च सत्यं च ब्रह्मचर्यं तथार्जवम्
भूतात्मा भूतकृद् भूतो भूतभव्यभवोद्भवः भूर् भुवः स्वरितश् चैव भूतो ह्य् अग्निर् महेश्वरः
ब्रह्मावर्तः सुरावर्तः कामावर्त नमो ऽस्तु ते कामबिम्बविनिर्हन्ता कर्णिकारस्रजप्रियः