नमो ऽर्धदण्डिकेशाय शुष्काय विकृताय च विलोहिताय धूम्राय नीलग्रीवाय वै नमः
नमो ऽस्त्व् अप्रतिरूपाय विरूपाय शिवाय च सूर्याय सूर्यपतये सूर्यध्वजपताकिने
नमः प्रमथनाशाय वृषस्कन्धाय वै नमः नमो हिरण्यगर्भाय हिरण्यकवचाय च
हिरण्यकृतचूडाय हिरण्यपतये नमः शत्रुघाताय चण्डाय पर्णसंघशयाय च
नमः स्तुताय स्तुतये स्तूयमानाय वै नमः सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने
नमो होमाय मन्त्राय शुक्लध्वजपताकिने नमो ऽनम्याय नम्याय नमः किलकिलाय च
नमस् त्वां शयमानाय शयितायोत्थिताय च स्थिताय धावमानाय कुब्जाय कुटिलाय च
नमो नर्तनशीलाय मुखवादित्रकारिणे बाधापहाय लुब्धाय गीतवादित्रकारिणे
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च उग्राय च नमो नित्यं नमश् च दशबाहवे
नमः कपालहस्ताय सितभस्मप्रियाय च विभीषणाय भीमाय भीष्मव्रतधराय च
नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे पक्षमासलवार्धाय तुम्बीवीणाप्रियाय च
अघोरघोररूपाय घोराघोरतराय च नमः शिवाय शान्ताय नमः शान्ततमाय च
नमो बुद्धाय शुद्धाय संविभागप्रियाय च पवनाय पतंगाय नमः सांख्यपराय च
नमश् चण्डैकघण्टाय घण्टाजल्पाय घण्टिने सहस्रशतघण्टाय घण्टामालाप्रियाय च
प्राणदण्डाय नित्याय नमस् ते लोहिताय च हूंहूंकाराय रुद्राय भगाकारप्रियाय च
नमो ऽपारवते नित्यं गिरिवृक्षप्रियाय च नमो यज्ञाधिपतये भूताय प्रसुताय च
यज्ञवाहाय दान्ताय तप्याय च भगाय च नमस् तटाय तट्याय तटिनीपतये नमः
अन्नदायान्नपतये नमस् त्व् अन्नभुजाय च नमः सहस्रशीर्षाय सहस्रचरणाय च
सहस्रोद्धतशूलाय सहस्रनयनाय च नमो बालार्कवर्णाय बालरूपधराय च
नमो बालार्करूपाय बालक्रीडनकाय च नमः शुद्धाय बुद्धाय क्षोभणाय क्षयाय च
तरंगाङ्कितकेशाय मुक्तकेशाय वै नमः नमः षट्कर्मनिष्ठाय त्रिकर्मनियताय च
वर्णाश्रमाणां विधिवत् पृथग्धर्मप्रवर्तिने नमः श्रेष्ठाय ज्येष्ठाय नमः कलकलाय च
श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च धर्मकामार्थमोक्षाय क्रथाय क्रथनाय च
सांख्याय सांख्यमुख्याय योगाधिपतये नमः नमो रथ्याधिरथ्याय चतुष्पथपथाय च
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ईशान रुद्रसंघात हरिकेश नमो ऽस्तु ते
त्र्यम्बकायाम्बिकानाथ व्यक्ताव्यक्त नमो ऽस्तु ते कालकामदकामघ्न दुष्टोद्वृत्तनिषूदन
सर्वगर्हित सर्वघ्न सद्योजात नमो ऽस्तु ते उन्मादन शतावर्तगङ्गातोयार्द्रमूर्धज
चन्द्रार्धसंयुगावर्त मेघावर्त नमो ऽस्तु ते नमो ऽन्नदानकर्त्रे च अन्नदप्रभवे नमः
अन्नभोक्त्रे च गोप्त्रे च त्वम् एव प्रलयानल जरायुजाण्डजाश् चैव स्वेदजोद्भिज्ज एव च
त्वम् एव देवदेवेश भूतग्रामश् चतुर्विधः चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वम् एव च