दक्षो ऽपि मनसा देवं भवं शरणम् अन्वगात् प्राणापानौ समारुध्य चक्षुःस्थाने प्रयत्नतः
विधार्य सर्वतो दृष्टिं बहुदृष्टिर् अमित्रजित् स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते
श्राविते च महाख्याने देवानां पितृभिः सह तम् उवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः भीतः शङ्कितचित्तस् तु सबाष्पवदनेक्षणः
यदि प्रसन्नो भगवान् यदि वाहं तव प्रियः यदि चाहम् अनुग्राह्यो यदि देयो वरो मम
यद् भक्ष्यं भक्षितं पीतं त्रासितं यच् च नाशितम् चूर्णीकृतापविद्धं च यज्ञसंभारम् ईदृशम्
दीर्घकालेन महता प्रयत्नेन च संचितम् न च मिथ्या भवेन् मह्यं त्वत्प्रसादान् महेश्वर
तथास्त्व् इत्य् आह भगवान् भगनेत्रहरो हरः धर्माध्यक्षं महादेवं त्र्यम्बकं च प्रजापतिः
जानुभ्याम् अवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम् नाम्नां चाष्टसहस्रेण स्तुतवान् वृषभध्वजम्
एवं दृष्ट्वा तदा दक्षः शंभोर् वीर्यं द्विजोत्तमाः प्राञ्जलिः प्रणतो भूत्वा संस्तोतुम् उपचक्रमे
नमस् ते देवदेवेश नमस् ते ऽन्धकसूदन देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित
सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय सर्वतःपाणिपादस् त्वं सर्वतोक्षिशिरोमुखः
सर्वतःश्रुतिमांल् लोके सर्वम् आवृत्य तिष्ठसि शङ्कुकर्णो महाकर्णः कुम्भकर्णो ऽर्णवालयः
गजेन्द्रकर्णो गोकर्णः शतकर्णो नमो ऽस्तु ते शतोदरः शतावर्तः शतजिह्वः सनातनः
गायन्ति त्वां गायत्रिणो अर्चयन्त्य् अर्कम् अर्किणः देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः
मूर्तिमांस् त्वं महामूर्तिः समुद्रः सरसां निधिः त्वयि सर्वा देवता हि गावो गोष्ठ इवासते
त्वत्तः शरीरे पश्यामि सोमम् अग्निजलेश्वरम् आदित्यम् अथ विष्णुं च ब्रह्माणं सबृहस्पतिम्
क्रिया करणकार्ये च कर्ता कारणम् एव च असच् च सदसच् चैव तथैव प्रभवाव्ययौ
नमो भवाय शर्वाय रुद्राय वरदाय च पशूनां पतये चैव नमो ऽस्त्व् अन्धकघातिने
त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः
नमश् चण्डाय मुण्डाय विश्वचण्डधराय च दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः
नमो ऽर्धदण्डिकेशाय शुष्काय विकृताय च विलोहिताय धूम्राय नीलग्रीवाय वै नमः
नमो ऽस्त्व् अप्रतिरूपाय विरूपाय शिवाय च सूर्याय सूर्यपतये सूर्यध्वजपताकिने
नमः प्रमथनाशाय वृषस्कन्धाय वै नमः नमो हिरण्यगर्भाय हिरण्यकवचाय च
हिरण्यकृतचूडाय हिरण्यपतये नमः शत्रुघाताय चण्डाय पर्णसंघशयाय च
नमः स्तुताय स्तुतये स्तूयमानाय वै नमः सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने
नमो होमाय मन्त्राय शुक्लध्वजपताकिने नमो ऽनम्याय नम्याय नमः किलकिलाय च
नमस् त्वां शयमानाय शयितायोत्थिताय च स्थिताय धावमानाय कुब्जाय कुटिलाय च
नमो नर्तनशीलाय मुखवादित्रकारिणे बाधापहाय लुब्धाय गीतवादित्रकारिणे
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च उग्राय च नमो नित्यं नमश् च दशबाहवे
नमः कपालहस्ताय सितभस्मप्रियाय च विभीषणाय भीमाय भीष्मव्रतधराय च