नाहं देवो न दैत्यो वा न च भोक्तुम् इहागतः नैव द्रष्टुं च देवेन्द्रा न च कौतूहलान्विताः
दक्षयज्ञविनाशार्थं संप्राप्तो ऽहं सुरोत्तमाः वीरभद्रेति विख्यातो रुद्रकोपाद् विनिःसृतः
भद्रकाली च विख्याता देव्याः क्रोधाद् विनिर्गता प्रेषिता देवदेवेन यज्ञान्तिकम् उपागता
शरणं गच्छ राजेन्द्र देवदेवम् उमापतिम् वरं क्रोधो ऽपि देवस्य न वरः परिचारकैः
निखातोत्पाटितैर् यूपैर् अपविद्धैस् ततस् ततः उत्पतद्भिः पतद्भिश् च गृध्रैर् आमिषगृध्नुभिः
पक्षवातविनिर्धूतैः शिवारुतविनादितैः स तस्य यज्ञो नृपतेर् बाध्यमानस् तदा गणैः
आस्थाय मृगरूपं वै खम् एवाभ्यपतत् तदा तं तु यज्ञं तथारूपं गच्छन्तम् उपलभ्य सः
धनुर् आदाय बाणं च तदर्थम् अगमत् प्रभुः ततस् तस्य गणेशस्य क्रोधाद् अमिततेजसः
ललाटात् प्रसृतो घोरः स्वेदबिन्दुर् बभूव ह तस्मिन् पतितमात्रे च स्वेदबिन्दौ तदा भुवि
प्रादुर्भूतो महान् अग्निर् ज्वलत्कालानलोपमः तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः
ह्रस्वो ऽतिमात्रो रक्ताक्षो हरिच्छ्मश्रुर् विभीषणः ऊर्ध्वकेशो ऽतिरोमाङ्गः शोणकर्णस् तथैव च
करालकृष्णवर्णश् च रक्तवासास् तथैव च तं यज्ञं स महासत्त्वो ऽदहत् कक्षम् इवानलः
देवाश् च प्रद्रुताः सर्वे गता भीता दिशो दश तेन तस्मिन् विचरता विक्रमेण तदा तु वै
पृथिवी व्यचलत् सर्वा सप्तद्वीपा समन्ततः महाभूते प्रवृत्ते तु देवलोकभयंकरे
तदा चाहं महादेवम् अब्रवं प्रतिपूजयन् भवते ऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो
क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया इमाश् च देवताः सर्वा ऋषयश् च सहस्रशः
तव क्रोधान् महादेव न शान्तिम् उपलेभिरे यश् चैष पुरुषो जातः स्वेदजस् ते सुरर्षभ
ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति एकीभूतस्य न ह्य् अस्य धारणे तेजसः प्रभो
समर्था सकला पृथ्वी बहुधा सृज्यताम् अयम् इत्य् उक्तः स मया देवो भागे चापि प्रकल्पिते
भगवान् मां तथेत्य् आह देवदेवः पिनाकधृक् परां च प्रीतिम् अगमत् स स्वयं च पिनाकधृक्
दक्षो ऽपि मनसा देवं भवं शरणम् अन्वगात् प्राणापानौ समारुध्य चक्षुःस्थाने प्रयत्नतः
विधार्य सर्वतो दृष्टिं बहुदृष्टिर् अमित्रजित् स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते
श्राविते च महाख्याने देवानां पितृभिः सह तम् उवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः भीतः शङ्कितचित्तस् तु सबाष्पवदनेक्षणः
यदि प्रसन्नो भगवान् यदि वाहं तव प्रियः यदि चाहम् अनुग्राह्यो यदि देयो वरो मम
यद् भक्ष्यं भक्षितं पीतं त्रासितं यच् च नाशितम् चूर्णीकृतापविद्धं च यज्ञसंभारम् ईदृशम्
दीर्घकालेन महता प्रयत्नेन च संचितम् न च मिथ्या भवेन् मह्यं त्वत्प्रसादान् महेश्वर
तथास्त्व् इत्य् आह भगवान् भगनेत्रहरो हरः धर्माध्यक्षं महादेवं त्र्यम्बकं च प्रजापतिः
जानुभ्याम् अवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम् नाम्नां चाष्टसहस्रेण स्तुतवान् वृषभध्वजम्
एवं दृष्ट्वा तदा दक्षः शंभोर् वीर्यं द्विजोत्तमाः प्राञ्जलिः प्रणतो भूत्वा संस्तोतुम् उपचक्रमे
नमस् ते देवदेवेश नमस् ते ऽन्धकसूदन देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित