निःस्वाध्यायवषट्काराः प्रजास् तस्मिन् प्रजापतौ प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः
न यष्टव्यं न होतव्यम् इति तस्य प्रजापतेः आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते
अहम् इज्यश् च यष्टा च यज्ञश् चेति भृगूद्वह मयि यज्ञो विधातव्यो मयि होतव्यम् इत्य् अपि
तम् अतिक्रान्तमर्यादम् आददानम् असांप्रतम् ऊचुर् महर्षयः सर्वे मरीचिप्रमुखास् तदा
वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून् अधर्मं कुरु मा वेण एष धर्मः सनातनः
निधने ऽत्रेः प्रसूतस् त्वं प्रजापतिर् असंशयम् प्रजाश् च पालयिष्ये ऽहम् इतीह समयः कृतः
तांस् तथा ब्रुवतः सर्वान् महर्षीन् अब्रवीत् तदा वेणः प्रहस्य दुर्बुद्धिर् इमम् अर्थम् अनर्थवित्
स्रष्टा धर्मस्य कश् चान्यः श्रोतव्यं कस्य वा मया श्रुतवीर्यतपःसत्यैर् मया वा कः समो भुवि
प्रभवं सर्वभूतानां धर्माणां च विशेषतः संमूढा न विदुर् नूनं भवन्तो मां विचेतसः
इच्छन् दहेयं पृथिवीं प्लावयेयं जलैस् तथा द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा
यदा न शक्यते मोहाद् अवलेपाच् च पार्थिवः अपनेतुं तदा वेणस् ततः क्रुद्धा महर्षयः
तं निगृह्य महात्मानो विस्फुरन्तं महाबलम् ततो ऽस्य सव्यम् ऊरुं ते ममन्थुर् जातमन्यवः
तस्मिन् निमथ्यमाने वै राज्ञ ऊरौ तु जज्ञिवान् ह्रस्वो ऽतिमात्रः पुरुषः कृष्णश् चेति बभूव ह
स भीतः प्राञ्जलिर् भूत्वा तस्थिवान् द्विजसत्तमाः तम् अत्रिर् विह्वलं दृष्ट्वा निषीदेत्य् अब्रवीत् तदा
निषादवंशकर्तासौ बभूव वदतां वराः धीवरान् असृजच् चापि वेणकल्मषसंभवान्
ये चान्ये विन्ध्यनिलयास् तथा पर्वतसंश्रयाः अधर्मरुचयो विप्रास् ते तु वै वेणकल्मषाः
ततः पुनर् महात्मानः पाणिं वेणस्य दक्षिणम् अरणीम् इव संरब्धा ममन्थुर् जातमन्यवः
पृथुस् तस्मात् समुत्पन्नः कराज् ज्वलनसंनिभः दीप्यमानः स्ववपुषा साक्षाद् अग्निर् इव ज्वलन्
अथ सो ऽजगवं नाम धनुर् गृह्य महारवम् शरांश् च दिव्यान् रक्षार्थं कवचं च महाप्रभम्
तस्मिञ् जाते ऽथ भूतानि संप्रहृष्टानि सर्वशः समापेतुर् महाभागा वेणस् तु त्रिदिवं ययौ
समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना त्रातः स पुरुषव्याघ्रः पुंनाम्नो नरकात् तदा
तं समुद्राश् च नद्यश् च रत्नान्य् आदाय सर्वशः तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे
पितामहश् च भगवान् देवैर् आङ्गिरसैः सह स्थावराणि च भूतानि जङ्गमानि च सर्वशः
समागम्य तदा वैण्यम् अभ्यषिञ्चन् नराधिपम् महता राजराजेन प्रजास् तेनानुरञ्जिताः
सो ऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः आधिराज्ये तदा राज्ञां पृथुर् वैण्यः प्रतापवान्
पित्रापरञ्जितास् तस्य प्रजास् तेनानुरञ्जिताः अनुरागात् ततस् तस्य नाम राजाभ्यजायत
आपस् तस्तम्भिरे तस्य समुद्रम् अभियास्यतः पर्वताश् च ददुर् मार्गं ध्वजभङ्गश् च नाभवत्
अकृष्टपच्या पृथिवी सिध्यन्त्य् अन्नानि चिन्तनात् सर्वकामदुघा गावः पुटके पुटके मधु
एतस्मिन्न् एव काले तु यज्ञे पैतामहे शुभे सूतः सूत्यां समुत्पन्नः सौत्ये ऽहनि महामतिः
तस्मिन्न् एव महायज्ञे जज्ञे प्राज्ञो ऽथ मागधः पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः