पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः
भगवन् सर्वदेवेषु प्रभावाभ्यधिको गुणैः अजेयश् चाप्य् अधृष्यश् च तेजसा यशसा श्रिया
अनेन तु महाभाग प्रतिषेधेन भागतः अतीव दुःखम् आपन्ना वेपथुश् च महान् अयम्
किं नाम दानं नियमं तपो वा कुर्याम् अहं येन पतिर् ममाद्य लभेत भागं भगवान् अचिन्त्यो यज्ञस्य चेन्द्राद्यमरैर् विचित्रम्
अहं विजानामि विशालनेत्रे ध्यानेन सर्वे च विदन्ति सन्तः तवाद्य मोहेन सहेन्द्रदेवा लोकत्रयं सर्वम् अथो विनष्टम्
माम् अध्वरेशं नितरां स्तुवन्ति रथंतरं साम गायन्ति मह्यम् मां ब्राह्मणा ब्रह्ममन्त्रैर् यजन्ति ममाध्वर्यवः कल्पयन्ते च भागम्
विकत्थसे प्राकृतवत् सर्वस्त्रीजनसंसदि स्तौषि गर्वायसे चापि स्वम् आत्मानं न संशयः
नात्मानं स्तौमि देवेशि यथा त्वम् अनुगच्छसि संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि
इत्य् उक्त्वा भगवान् पत्नीम् उमां प्राणैर् अपि प्रियाम् सो ऽसृजद् भगवान् वक्त्राद् भूतं क्रोधाग्निसंभवम्
तम् उवाच मखं गच्छ दक्षस्य त्वं महेश्वरः नाशयाशु क्रतुं तस्य दक्षस्य मदनुज्ञया
ततो रुद्रप्रयुक्तेन सिंहवेषेण लीलया देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः
मन्युना च महाभीमा भद्रकाली महेश्वरी आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा
स एष भगवान् क्रोधः प्रेतावासकृतालयः वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः
सो ऽसृजद् रोमकूपेभ्य आत्मनैव गणेश्वरान् रुद्रानुगान् गणान् रौद्रान् रुद्रवीर्यपराक्रमान्
रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः ते निपेतुस् ततस् तूर्णं शतशो ऽथ सहस्रशः
ततः किलकिलाशब्द आकाशं पूरयन्न् इव समभूत् सुमहान् विप्राः सर्वरुद्रगणैः कृतः
तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः पर्वताश् च व्यशीर्यन्त चकम्पे च वसुंधरा
मरुतश् च ववुः क्रूराश् चुक्षुभे वरुणालयः अग्नयो वै न दीप्यन्ते न चादीप्यत भास्करः
ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ऋषयो न प्रभासन्ते न देवा न च दानवाः
एवं हि तिमिरीभूते निर्दहन्ति गणेश्वराः प्रभञ्जन्त्य् अपरे यूपान् घोरान् उत्पाटयन्ति च
प्रणदन्ति तथा चान्ये विकुर्वन्ति तथा परे त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः
चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि च शीर्यमाणान्य् अदृश्यन्त तारा इव नभस्तलात्
दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः क्षीरनद्यस् तथा चान्या घृतपायसकर्दमाः
मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः षड्रसान् निवहन्त्य् अन्या गुडकुल्या मनोरमाः
उच्चावचानि मांसानि भक्ष्याणि विविधानि च यानि कानि च दिव्यानि लेह्यचोष्याणि यानि च
भुञ्जन्ति विविधैर् वक्त्रैर् विलुम्पन्ति क्षिपन्ति च रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः
भक्षयन्तो ऽथ शैलाभा भीषयन्तश् च सर्वतः क्रीडन्ति विविधाकाराश् चिक्षिपुः सुरयोषितः
एवं गणाश् च तैर् युक्तो वीरभद्रः प्रतापवान् रुद्रकोपप्रयुक्तश् च सर्वदेवैः सुरक्षितम्
तं यज्ञम् अदहच् छीघ्रं भद्रकाल्याः समीपतः चक्रुर् अन्ये तथा नादान् सर्वभूतभयंकरान्
छित्त्वा शिरो ऽन्ये यज्ञस्य व्यनदन्त भयंकरम् ततः शक्रादयो देवा दक्षश् चैव प्रजापतिः ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवान् इति