एवम् उक्त्वा तु विप्रर्षिः पुनर् दक्षम् अभाषत
पूज्यं च पशुभर्तारं कस्मान् नार्चयसे प्रभुम्
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः एकादशस्थानगता नान्यं विद्मो महेश्वरम्
सर्वेषाम् एकमन्त्रो ऽयं ममेशो न निमन्त्रितः यथाहं शंकराद् ऊर्ध्वं नान्यं पश्यामि दैवतम् तथा दक्षस्य विपुलो यज्ञो ऽयं न भविष्यति
विष्णोश् च भागा विविधाः प्रदत्तास् तथा च रुद्रेभ्य उत प्रदत्ताः अन्ये ऽपि देवा निजभागयुक्ता ददामि भागं न तु शंकराय
गतास् तु देवता ज्ञात्वा शैलराजसुता तदा उवाच वचनं शर्वं देवं पशुपतिं पतिम्
भगवन् कुत्र यान्त्य् एते देवाः शक्रपुरोगमाः ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महान् अयम्
दक्षो नाम महाभागे प्रजानां पतिर् उत्तमः हयमेधेन यजते तत्र यान्ति दिवौकसः
यज्ञम् एतं महाभाग किमर्थं नानुगच्छसि केन वा प्रतिषेधेन गमनं ते न विद्यते
सुरैर् एव महाभागे सर्वम् एतद् अनुष्ठितम् यज्ञेषु मम सर्वेषु न भाग उपकल्पितः
पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः
भगवन् सर्वदेवेषु प्रभावाभ्यधिको गुणैः अजेयश् चाप्य् अधृष्यश् च तेजसा यशसा श्रिया
अनेन तु महाभाग प्रतिषेधेन भागतः अतीव दुःखम् आपन्ना वेपथुश् च महान् अयम्
किं नाम दानं नियमं तपो वा कुर्याम् अहं येन पतिर् ममाद्य लभेत भागं भगवान् अचिन्त्यो यज्ञस्य चेन्द्राद्यमरैर् विचित्रम्
अहं विजानामि विशालनेत्रे ध्यानेन सर्वे च विदन्ति सन्तः तवाद्य मोहेन सहेन्द्रदेवा लोकत्रयं सर्वम् अथो विनष्टम्
माम् अध्वरेशं नितरां स्तुवन्ति रथंतरं साम गायन्ति मह्यम् मां ब्राह्मणा ब्रह्ममन्त्रैर् यजन्ति ममाध्वर्यवः कल्पयन्ते च भागम्
विकत्थसे प्राकृतवत् सर्वस्त्रीजनसंसदि स्तौषि गर्वायसे चापि स्वम् आत्मानं न संशयः
नात्मानं स्तौमि देवेशि यथा त्वम् अनुगच्छसि संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि
इत्य् उक्त्वा भगवान् पत्नीम् उमां प्राणैर् अपि प्रियाम् सो ऽसृजद् भगवान् वक्त्राद् भूतं क्रोधाग्निसंभवम्
तम् उवाच मखं गच्छ दक्षस्य त्वं महेश्वरः नाशयाशु क्रतुं तस्य दक्षस्य मदनुज्ञया
ततो रुद्रप्रयुक्तेन सिंहवेषेण लीलया देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः
मन्युना च महाभीमा भद्रकाली महेश्वरी आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा
स एष भगवान् क्रोधः प्रेतावासकृतालयः वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः
सो ऽसृजद् रोमकूपेभ्य आत्मनैव गणेश्वरान् रुद्रानुगान् गणान् रौद्रान् रुद्रवीर्यपराक्रमान्
रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः ते निपेतुस् ततस् तूर्णं शतशो ऽथ सहस्रशः
ततः किलकिलाशब्द आकाशं पूरयन्न् इव समभूत् सुमहान् विप्राः सर्वरुद्रगणैः कृतः
तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः पर्वताश् च व्यशीर्यन्त चकम्पे च वसुंधरा
मरुतश् च ववुः क्रूराश् चुक्षुभे वरुणालयः अग्नयो वै न दीप्यन्ते न चादीप्यत भास्करः
ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ऋषयो न प्रभासन्ते न देवा न च दानवाः
एवं हि तिमिरीभूते निर्दहन्ति गणेश्वराः प्रभञ्जन्त्य् अपरे यूपान् घोरान् उत्पाटयन्ति च