न मे ऽस्ति बन्धुभिः किंचित् कृत्यं सुरवरेश्वर तथा कुरु महादेव यथाहं सुखम् आप्नुयाम्
श्रुत्वा स देव्या वचनं सुरेशस् तस्याः प्रियार्थे स्वगिरिं विहाय जगाम मेरुं सुरसिद्धसेवितं भार्यासहायः स्वगणैश् च युक्तः
प्राचेतसस्य दक्षस्य कथं वैवस्वते ऽन्तरे विनाशम् अगमद् ब्रह्मन् हयमेधः प्रजापतेः
देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः कथं विनाशितो यज्ञो दक्षस्यामिततेजसः महादेवेन रोषाद् वै तन् नः प्रब्रूहि विस्तरात्
वर्णयिष्यामि वो विप्रा महादेवेन वै यथा क्रोधाद् विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया
पुरा मेरोर् द्विजश्रेष्ठाः शृङ्गं त्रैलोक्यपूजितम् ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम्
अप्रमेयम् अनाधृष्यं सर्वलोकनमस्कृतम् तत्र देवो गिरितटे सर्वधातुविचित्रिते
पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत्
आदित्याश् च महात्मानो वसवश् च महौजसः तथैव च महात्मानाव् अश्विनौ भिषजां वरौ
तथा वैश्रवणो राजा गुह्यकैः परिवारितः यक्षाणाम् ईश्वरः श्रीमान् कैलासनिलयः प्रभुः
उपासते महात्मानम् उशना च महामुनिः सनत्कुमारप्रमुखास् तथैव परमर्षयः
अङ्गिरःप्रमुखाश् चैव तथा देवर्षयो ऽपि च विश्वावसुश् च गन्धर्वस् तथा नारदपर्वतौ
अप्सरोगणसंघाश् च समाजग्मुर् अनेकशः ववौ सुखशिवो वायुर् नानागन्धवहः शुचिः
सर्वर्तुकुसुमोपेतः पुष्पवन्तो ऽभवन् द्रुमाः तथा विद्याधराः साध्याः सिद्धाश् चैव तपोधनाः
महादेवं पशुपतिं पर्युपासत तत्र वै भूतानि च तथान्यानि नानारूपधराण्य् अथ
राक्षसाश् च महारौद्राः पिशाचाश् च महाबलाः बहुरूपधरा धृष्टा नानाप्रहरणायुधाः
देवस्यानुचरास् तत्र तस्थुर् वैश्वानरोपमाः नन्दीश्वरश् च भगवान् देवस्यानुमते स्थितः
प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा
पर्युपासत तं देवं रूपिणी द्विजसत्तमाः एवं स भगवांस् तत्र पूज्यमानः सुरर्षिभिः
देवैश् च सुमहाभागैर् महादेवो व्यतिष्ठत कस्यचित् त्व् अथ कालस्य दक्षो नाम प्रजापतिः
पूर्वोक्तेन विधानेन यक्ष्यमाणो ऽभ्यपद्यत ततस् तस्य मखे देवाः सर्वे शक्रपुरोगमाः
स्वर्गस्थानाद् अथागम्य दक्षम् आपेदिरे तथा ते विमानैर् महात्मानो ज्वलद्भिर् ज्वलनप्रभाः
देवस्यानुमते ऽगच्छन् गङ्गाद्वारम् इति श्रुतिः गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम्
ऋषिसिद्धैः परिवृतं दक्षं धर्मभृतां वरम् पृथिव्याम् अन्तरिक्षे च ये च स्वर्लोकवासिनः
सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् आदित्या वसवो रुद्राः साध्याः सर्वे मरुद्गणाः
विष्णुना सहिताः सर्व आगता यज्ञभागिनः ऊष्मपा धूमपाश् चैव आज्यपाः सोमपास् तथा
अश्विनौ मरुतश् चैव नानादेवगणैः सह एते चान्ये च बहवो भूतग्रामास् तथैव च
जरायुजाण्डजाश् चैव तथैव स्वेदजोद्भिदः आगताः सत्त्रिणः सर्वे देवाः स्त्रीभिः सहर्षिभिः
विराजन्ते विमानस्था दीप्यमाना इवाग्नयः तान् दृष्ट्वा मन्युनाविष्टो दधीचिर् वाक्यम् अब्रवीत्
अपूज्यपूजने चैव पूज्यानां चाप्य् अपूजने नरः पापम् अवाप्नोति महद् वै नात्र संशयः