नृत्यन्ति तत्राप्सरसः सुरेशा गायन्ति गन्धर्वगणाः प्रहृष्टाः दिव्यानि वाद्यान्य् अथ वादयन्ति केचिद् द्रुतं देववरं स्तुवन्ति
एवं स देवः स्वगणैर् उपेतो महाबलैः शक्रयमाग्नितुल्यैः देव्याः प्रियार्थं भगनेत्रहन्ता गिरिं न तत्याज तदा महात्मा
देव्याः समं तु भगवांस् तिष्ठंस् तत्र स कामहा अकरोत् किं महादेव एतद् इच्छाम वेदितुम्
भगवान् हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया गणेशैर् विविधाकारैर् हासं संजनयन् मुहुः
देवीं बालेन्दुतिलको रमयंश् च रराम च महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः
अथ देव्य् आससादैका मातरं परमेश्वरी आसीनां काञ्चने शुभ्र आसने परमाद्भुते
अथ दृष्ट्वा सतीं देवीम् आगतां सुररूपिणीम् आसनेन महार्हेण शंपादयद् अनिन्दिताम् आसीनां ताम् अथोवाच मेना हिमवतः प्रिया
चिरस्यागमनं ते ऽद्य वद पुत्रि शुभेक्षणे दरिद्रा क्रीडनैस् त्वं हि भर्त्रा क्रीडसि संगता
ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः उमे त एवं क्रीडन्ति यथा तव पतिः शुभे
सैवम् उक्ताथ मात्रा तु नातिहृष्टमना भवत् महत्या क्षमया युक्ता न किंचित् ताम् उवाच ह विसृष्टा च तदा मात्रा गत्वा देवम् उवाच ह
भगवन् देवदेवेश नेह वत्स्यामि भूधरे अन्यं कुरु ममावासं भुवनेषु महाद्युते
सदा त्वम् उच्यमाना वै मया वासार्थम् ईश्वरि अन्यं न रोचितवती वासं वै देवि कर्हिचित्
इदानीं स्वयम् एव त्वं वासम् अन्यत्र शोभने कस्मान् मृगयसे देवि ब्रूहि तन् मे शुचिस्मिते
गृहं गतास्मि देवेश पितुर् अद्य महात्मनः दृष्ट्वा च तत्र मे माता विजने लोकभावने
आसनादिभिर् अभ्यर्च्य सा माम् एवम् अभाषत उमे तव सदा भर्ता दरिद्रः क्रीडनैः शुभे
क्रीडते नहि देवानां क्रीडा भवति तादृशी यत् किल त्वं महादेव गणैश् च विविधैस् तथा रमसे तद् अनिष्टं हि मम मातुर् वृषध्वज
ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः
एवम् एव न संदेहः कस्मान् मन्युर् अभूत् तव कृत्तिवासा ह्य् अवासाश् च श्मशाननिलयश् च ह
अनिकेतो ह्य् अरण्येषु पर्वतानां गुहासु च विचरामि गणैर् नग्नैर् वृतो ऽम्भोजविलोचने
मा क्रुधो देवि मात्रे त्वं तथ्यं मातावदत् तव नहि मातृसमो बन्धुर् जन्तूनाम् अस्ति भूतले
न मे ऽस्ति बन्धुभिः किंचित् कृत्यं सुरवरेश्वर तथा कुरु महादेव यथाहं सुखम् आप्नुयाम्
श्रुत्वा स देव्या वचनं सुरेशस् तस्याः प्रियार्थे स्वगिरिं विहाय जगाम मेरुं सुरसिद्धसेवितं भार्यासहायः स्वगणैश् च युक्तः
प्राचेतसस्य दक्षस्य कथं वैवस्वते ऽन्तरे विनाशम् अगमद् ब्रह्मन् हयमेधः प्रजापतेः
देव्या मन्युकृतं बुद्ध्वा क्रुद्धः सर्वात्मकः प्रभुः कथं विनाशितो यज्ञो दक्षस्यामिततेजसः महादेवेन रोषाद् वै तन् नः प्रब्रूहि विस्तरात्
वर्णयिष्यामि वो विप्रा महादेवेन वै यथा क्रोधाद् विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया
पुरा मेरोर् द्विजश्रेष्ठाः शृङ्गं त्रैलोक्यपूजितम् ज्योतिःस्थलं नाम चित्रं सर्वरत्नविभूषितम्
अप्रमेयम् अनाधृष्यं सर्वलोकनमस्कृतम् तत्र देवो गिरितटे सर्वधातुविचित्रिते
पर्यङ्क इव विस्तीर्ण उपविष्टो बभूव ह शैलराजसुता चास्य नित्यं पार्श्वस्थिताभवत्
आदित्याश् च महात्मानो वसवश् च महौजसः तथैव च महात्मानाव् अश्विनौ भिषजां वरौ
तथा वैश्रवणो राजा गुह्यकैः परिवारितः यक्षाणाम् ईश्वरः श्रीमान् कैलासनिलयः प्रभुः