महादेवाय चित्राय विचित्राय च वै नमः प्रधानायाप्रमेयाय कार्याय कारणाय च
पुरुषाय नमस् ते ऽस्तु पुरुषेच्छाकराय च नमः पुरुषसंयोगप्रधानगुणकारिणे
प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च
कालज्ञाय च सर्वेषां नमो नियमकारिणे नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च
नमस् ते देवदेवेश नमस् ते भूतभावन शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो
एवं स भगवान् देवो जगत्पतिर् उमापतिः स्तूयमानः सुरैः सर्वैर् अमरान् इदम् अब्रवीत्
द्रष्टुं सुखश् च सौम्यश् च देवानाम् अस्मि भोः सुराः वरं वरयत क्षिप्रं दातास्मि तम् असंशयम्
ततस् ते प्रणताः सर्वे सुरा ऊचुस् त्रिलोचनम्
तवैव भगवन् हस्ते वर एषो ऽवतिष्ठताम् यदा कार्यं तदा नस् त्वं दास्यसे वरम् ईप्सितम्
एवम् अस्त्व् इति तान् उक्त्वा विसृज्य च सुरान् हरः लोकांश् च प्रमथैः सार्धं विवेश भवनं स्वकम्
यस् तु हरोत्सवम् अद्भुतम् एनं गायति दैवतविप्रसमक्षम् सो ऽप्रतिरूपगणेशसमानो देहविपर्ययम् एत्य सुखी स्यात्
विप्रवर्याः स्तवं हीमं शृणुयाद् वा पठेच् च यः स सर्वलोकगो देवैः पूज्यते ऽमरराड् इव
प्रविष्टे भवनं देवे सूपविष्टे वरासने स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत्
तम् अनाचारसंयुक्तं दुरात्मानं कुलाधमम् लोकान् सर्वान् पीडयन्तं सर्वाङ्गावरणात्मकम्
ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह चक्राह्वयस्य रूपेण रत्या सह समागतम्
अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः नयनेन तृतीयेन सावज्ञं समवैक्षत
ततो ऽस्य नेत्रजो वह्निर् ज्वालामालासहस्रवान् सहसा रतिभर्तारम् अदहत् सपरिच्छदम्
स दह्यमानः करुणम् आर्तो ऽक्रोशत विस्वरम् प्रसादयंश् च तं देवं पपात धरणीतले
अथ सो ऽग्निपरीताङ्गो मन्मथो लोकतापनः पपात सहसा मूर्छां क्षणेन समपद्यत
पत्नी तु करुणं तस्य विललाप सुदुःखिता देवीं देवं च दुःखार्ता अयाचत् करुणावती
तस्याश् च करुणां ज्ञात्वा देवौ तौ करुणात्मकौ ऊचतुस् तां समालोक्य समाश्वास्य च दुःखिताम्
दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिर् इहेष्यते अशरीरो ऽपि ते भद्रे कार्यं सर्वं करिष्यति
यदा तु विष्णुर् भगवान् वसुदेवसुतः शुभे तदा तस्य सुतो यश् च पतिस् ते संभविष्यति
ततः सा तु वरं लब्ध्वा कामपत्नी शुभानना जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा
दग्ध्वा कामं ततो विप्राः स तु देवो वृषध्वजः रेमे तत्रोमया सार्धं प्रहृष्टस् तु हिमाचले
कन्दरेषु च रम्येषु पद्मिनीषु गुहासु च निर्झरेषु च रम्येषु कर्णिकारवनेषु च
नदीतीरेषु कान्तेषु किंनराचरितेषु च शृङ्गेषु शैलराजस्य तडागेषु सरःसु च
वनराजिषु रम्यासु नानापक्षिरुतेषु च तीर्थेषु पुण्यतोयेषु मुनीनाम् आश्रमेषु च
एतेषु पुण्येषु मनोहरेषु देशेषु विद्याधरभूषितेषु गन्धर्वयक्षामरसेवितेषु रेमे स देव्या सहितस् त्रिनेत्रः
देवैः सहेन्द्रैर् मुनियक्षसिद्धैर् गन्धर्वविद्याधरदैत्यमुख्यैः अन्यैश् च सर्वैर् विविधैर् वृतो ऽसौ तस्मिन् नगे हर्षम् अवाप शंभुः