नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे भगनेत्रनिपाताय पूष्णो दन्तहराय च
नमः पिनाकशूलासिखड्गमुद्गरधारिणे नमो ऽस्तु कालकालाय तृतीयनयनाय च
अन्तकान्तकृते चैव नमः पर्वतवासिने सुवर्णरेतसे चैव नमः कुण्डलधारिणे
दैत्यानां योगनाशाय योगिनां गुरवे नमः शशाङ्कादित्यनेत्राय ललाटनयनाय च
नमः श्मशानरतये श्मशानवरदाय च नमो दैवतनाथाय त्र्यम्बकाय नमो नमः
गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे नमो मुण्डार्धमुण्डाय पशूनां पतये नमः
सलिले तप्यमानाय योगैश्वर्यप्रदाय च नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे
नमो ऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः नमो रुद्राय वसव आदित्यायाश्विने नमः
नमः पित्रे ऽथ सांख्याय विश्वेदेवाय वै नमः नमः शर्वाय उग्राय शिवाय वरदाय च
नमो भीमाय सेनान्ये पशूनां पतये नमः शुचये वैरिहानाय सद्योजाताय वै नमः
महादेवाय चित्राय विचित्राय च वै नमः प्रधानायाप्रमेयाय कार्याय कारणाय च
पुरुषाय नमस् ते ऽस्तु पुरुषेच्छाकराय च नमः पुरुषसंयोगप्रधानगुणकारिणे
प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः कृताकृतस्य सत्कर्त्रे फलसंयोगदाय च
कालज्ञाय च सर्वेषां नमो नियमकारिणे नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च
नमस् ते देवदेवेश नमस् ते भूतभावन शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो
एवं स भगवान् देवो जगत्पतिर् उमापतिः स्तूयमानः सुरैः सर्वैर् अमरान् इदम् अब्रवीत्
द्रष्टुं सुखश् च सौम्यश् च देवानाम् अस्मि भोः सुराः वरं वरयत क्षिप्रं दातास्मि तम् असंशयम्
ततस् ते प्रणताः सर्वे सुरा ऊचुस् त्रिलोचनम्
तवैव भगवन् हस्ते वर एषो ऽवतिष्ठताम् यदा कार्यं तदा नस् त्वं दास्यसे वरम् ईप्सितम्
एवम् अस्त्व् इति तान् उक्त्वा विसृज्य च सुरान् हरः लोकांश् च प्रमथैः सार्धं विवेश भवनं स्वकम्
यस् तु हरोत्सवम् अद्भुतम् एनं गायति दैवतविप्रसमक्षम् सो ऽप्रतिरूपगणेशसमानो देहविपर्ययम् एत्य सुखी स्यात्
विप्रवर्याः स्तवं हीमं शृणुयाद् वा पठेच् च यः स सर्वलोकगो देवैः पूज्यते ऽमरराड् इव
प्रविष्टे भवनं देवे सूपविष्टे वरासने स वक्रो मन्मथः क्रूरो देवं वेद्धुमना भवत्
तम् अनाचारसंयुक्तं दुरात्मानं कुलाधमम् लोकान् सर्वान् पीडयन्तं सर्वाङ्गावरणात्मकम्
ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह चक्राह्वयस्य रूपेण रत्या सह समागतम्
अथाततायिनं विप्रा वेद्धुकामं सुरेश्वरः नयनेन तृतीयेन सावज्ञं समवैक्षत
ततो ऽस्य नेत्रजो वह्निर् ज्वालामालासहस्रवान् सहसा रतिभर्तारम् अदहत् सपरिच्छदम्
स दह्यमानः करुणम् आर्तो ऽक्रोशत विस्वरम् प्रसादयंश् च तं देवं पपात धरणीतले
अथ सो ऽग्निपरीताङ्गो मन्मथो लोकतापनः पपात सहसा मूर्छां क्षणेन समपद्यत
पत्नी तु करुणं तस्य विललाप सुदुःखिता देवीं देवं च दुःखार्ता अयाचत् करुणावती