इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः हिमगिरितनयाविवाहभूत्यै षड् उपययुर् ऋतवो मुनिप्रवीराः
तत एवं प्रवृत्ते तु सर्वभूतसमागमे नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः
शैलपुत्रीम् अलंकृत्य योग्याभरणसंपदा पुरं प्रवेशितवांस् तां स्वयम् आदाय भो द्विजाः
ततस् तु पुनर् एवेशम् अहं चैवोक्तवान् विभुम् हविर् जुहोमि वह्नौ ते उपाध्यायपदे स्थितः
ददासि मह्यं यद्य् आज्ञां कर्तव्यो ऽयं क्रियाविधिः माम् आह शंकरश् चैवं देवदेवो जगत्पतिः
यद् उद्दिष्टं सुरेशान तत् कुरुष्व यथेप्सितम् कर्तास्मि वचनं सर्वं ब्रह्मंस् तव जगद्विभो
ततश् चाहं प्रहृष्टात्मा कुशान् आदाय सत्वरम् हस्तं देवस्य देव्याश् च योगबन्धेन युक्तवान्
ज्वलनश् च स्वयं तत्र कृताञ्जलिपुटः स्थितः श्रुतिगीतैर् महामन्त्रैर् मूर्तिमद्भिर् उपस्थितैः
यथोक्तविधिना हुत्वा सर्पिस् तद् अमृतं हविः ततस् तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम्
मुक्त्वा हस्तसमायोगं सहितः सर्वदैवतैः पुत्रैश् च मानसैः सिद्धैः प्रहृष्टेनान्तरात्मना
वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम् योगेनैव तयोर् विप्रास् तद् उमापरमेशयोः
उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् इति वः सर्वम् आख्यातं स्वयंवरम् इदं शुभम् उद्वाहश् चैव देवस्य शृणुध्वं परमाद्भुतम्
अथ वृत्ते विवाहे तु भवस्यामिततेजसः प्रहर्षम् अतुलं गत्वा देवाः शक्रपुरोगमाः तुष्टुवुर् वाग्भिर् आद्याभिः प्रणेमुस् ते महेश्वरम्
नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः नमः पवनवेगाय विरूपायाजिताय च नमः क्लेशविनाशाय दात्रे च शुभसंपदाम्
नमो नीलशिखण्डाय अम्बिकापतये नमः नमः पवनरूपाय शतरूपाय वै नमः
नमो भैरवरूपाय विरूपनयनाय च नमः सहस्रनेत्राय सहस्रचरणाय च
नमो देववयस्याय वेदाङ्गाय नमो नमः विष्टम्भनाय शक्रस्य बाह्वोर् वेदाङ्कुराय च
चराचराधिपतये शमनाय नमो नमः सलिलाशयलिङ्गाय युगान्ताय नमो नमः
नमः कपालमालाय कपालसूत्रधारिणे नमः कपालहस्ताय दण्डिने गदिने नमः
नमस् त्रैलोक्यनाथाय पशुलोकरताय च नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च
नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे भगनेत्रनिपाताय पूष्णो दन्तहराय च
नमः पिनाकशूलासिखड्गमुद्गरधारिणे नमो ऽस्तु कालकालाय तृतीयनयनाय च
अन्तकान्तकृते चैव नमः पर्वतवासिने सुवर्णरेतसे चैव नमः कुण्डलधारिणे
दैत्यानां योगनाशाय योगिनां गुरवे नमः शशाङ्कादित्यनेत्राय ललाटनयनाय च
नमः श्मशानरतये श्मशानवरदाय च नमो दैवतनाथाय त्र्यम्बकाय नमो नमः
गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे नमो मुण्डार्धमुण्डाय पशूनां पतये नमः
सलिले तप्यमानाय योगैश्वर्यप्रदाय च नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे
नमो ऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः नमो रुद्राय वसव आदित्यायाश्विने नमः
नमः पित्रे ऽथ सांख्याय विश्वेदेवाय वै नमः नमः शर्वाय उग्राय शिवाय वरदाय च
नमो भीमाय सेनान्ये पशूनां पतये नमः शुचये वैरिहानाय सद्योजाताय वै नमः