चारुरावविजुष्टानि किंशुकानां वनानि च पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे
तमालगुल्मैस् तस्यासीच् छोभा हिमवतस् तदा नीलजीमूतसंघातैर् निलीनैर् इव संधिषु
निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश् चन्दनचम्पकैश् च प्रमत्तपुंस्कोकिलसंप्रलापैर् हिमाचलो ऽतीव तदा रराज
श्रुत्वा शब्दं मृदुमदकलं सर्वतः कोकिलानां चञ्चत्पक्षाः समधुरतरं नीलकण्ठा विनेदुः तेषां शब्दैर् उपचितबलः पुष्पचापेषुहस्तः सज्जीभूतस् त्रिदशवनिता वेद्धुम् अङ्गेष्व् अनङ्गः
पटुः सूर्यातपश् चापि प्रायशो ऽल्पजलाशयः देवीविवाहसमये ग्रीष्म आगाद् धिमाचलम्
स चापि तरुभिस् तत्र बहुभिः कुसुमोत्करैः शोभयाम् आस शृङ्गाणि प्रालेयाद्रेः समन्ततः
तथापि च गिरौ तत्र वायवः सुमनोहराः ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः
वाप्यः प्रफुल्लपद्मौघकेसरारुणमूर्तयः अभवंस् तटसंघुष्टफलहंसकदम्बकाः
तथा कुरबकाश् चापि कुसुमापाण्डुमूर्तयः सर्वेषु नगशृङ्गेषु भ्रमरावलिसेविताः
बकुलाश् च नितम्बेषु विशालेषु महीभृतः उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः
इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः हिमगिरितनयाविवाहभूत्यै षड् उपययुर् ऋतवो मुनिप्रवीराः
तत एवं प्रवृत्ते तु सर्वभूतसमागमे नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः
शैलपुत्रीम् अलंकृत्य योग्याभरणसंपदा पुरं प्रवेशितवांस् तां स्वयम् आदाय भो द्विजाः
ततस् तु पुनर् एवेशम् अहं चैवोक्तवान् विभुम् हविर् जुहोमि वह्नौ ते उपाध्यायपदे स्थितः
ददासि मह्यं यद्य् आज्ञां कर्तव्यो ऽयं क्रियाविधिः माम् आह शंकरश् चैवं देवदेवो जगत्पतिः
यद् उद्दिष्टं सुरेशान तत् कुरुष्व यथेप्सितम् कर्तास्मि वचनं सर्वं ब्रह्मंस् तव जगद्विभो
ततश् चाहं प्रहृष्टात्मा कुशान् आदाय सत्वरम् हस्तं देवस्य देव्याश् च योगबन्धेन युक्तवान्
ज्वलनश् च स्वयं तत्र कृताञ्जलिपुटः स्थितः श्रुतिगीतैर् महामन्त्रैर् मूर्तिमद्भिर् उपस्थितैः
यथोक्तविधिना हुत्वा सर्पिस् तद् अमृतं हविः ततस् तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम्
मुक्त्वा हस्तसमायोगं सहितः सर्वदैवतैः पुत्रैश् च मानसैः सिद्धैः प्रहृष्टेनान्तरात्मना
वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम् योगेनैव तयोर् विप्रास् तद् उमापरमेशयोः
उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् इति वः सर्वम् आख्यातं स्वयंवरम् इदं शुभम् उद्वाहश् चैव देवस्य शृणुध्वं परमाद्भुतम्
अथ वृत्ते विवाहे तु भवस्यामिततेजसः प्रहर्षम् अतुलं गत्वा देवाः शक्रपुरोगमाः तुष्टुवुर् वाग्भिर् आद्याभिः प्रणेमुस् ते महेश्वरम्
नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः नमः पवनवेगाय विरूपायाजिताय च नमः क्लेशविनाशाय दात्रे च शुभसंपदाम्
नमो नीलशिखण्डाय अम्बिकापतये नमः नमः पवनरूपाय शतरूपाय वै नमः
नमो भैरवरूपाय विरूपनयनाय च नमः सहस्रनेत्राय सहस्रचरणाय च
नमो देववयस्याय वेदाङ्गाय नमो नमः विष्टम्भनाय शक्रस्य बाह्वोर् वेदाङ्कुराय च
चराचराधिपतये शमनाय नमो नमः सलिलाशयलिङ्गाय युगान्ताय नमो नमः
नमः कपालमालाय कपालसूत्रधारिणे नमः कपालहस्ताय दण्डिने गदिने नमः
नमस् त्रैलोक्यनाथाय पशुलोकरताय च नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च