कोयष्टिदात्यूहबलाकयुक्ता दृश्यास् तु पद्मोत्पलमीनपूर्णाः खगाश् च नानाविधभूषिताङ्गा दृश्यास् तु वृक्षेषु सुचित्रपक्षाः
क्रीडासु युक्तान् अथ तर्जयन्तः कुर्वन्ति शब्दं मदनेरिताङ्गाः तस्मिन् गिराव् अद्रिसुताविवाहे ववुश् च वाताः सुखशीतलाङ्गाः
पुष्पाणि शुभ्राण्य् अपि पातयन्तः शनैर् नगेभ्यो मलयाद्रिजाताः तथैव सर्वे ऋतवश् च पुण्याश् चकाशिरे ऽन्योन्यविमिश्रिताङ्गाः
समदालिकुलोद्गीतशिलाकुसुमसंचयैः परस्परं हि मालत्यो भावयन्त्यो विरेजिरे
नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश् च मृणालदण्डैः रक्तैश् च रक्तानि भृशं कृतानि मत्तद्विरेफावलिजुष्टपत्त्रैः
हैमानि विस्तीर्णजलेषु केषुचिन् निरन्तरं चारुतराणि केषुचित् वैदूर्यनालानि सरःसु केषुचित् प्रजज्ञिरे पद्मवनानि सर्वतः
वाप्यस् तत्राभवन् रम्याः कमलोत्पलपुष्पिताः नानाविहंगसंजुष्टा हैमसोपानपङ्क्तयः
शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः समुच्छ्रितान्य् अविरलैर् हेमानीव बभुर् द्विजाः
ईषद्विभिन्नकुसुमैः पाटलैश् चापि पाटलाः संबभूवुर् दिशः सर्वाः पवनाकम्पिमूर्तिभिः
कृष्णार्जुना दशगुणा नीलाशोकमहीरुहाः गिरौ ववृधिरे फुल्लाः स्पर्धयन्तः परस्परम्
चारुरावविजुष्टानि किंशुकानां वनानि च पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे
तमालगुल्मैस् तस्यासीच् छोभा हिमवतस् तदा नीलजीमूतसंघातैर् निलीनैर् इव संधिषु
निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश् चन्दनचम्पकैश् च प्रमत्तपुंस्कोकिलसंप्रलापैर् हिमाचलो ऽतीव तदा रराज
श्रुत्वा शब्दं मृदुमदकलं सर्वतः कोकिलानां चञ्चत्पक्षाः समधुरतरं नीलकण्ठा विनेदुः तेषां शब्दैर् उपचितबलः पुष्पचापेषुहस्तः सज्जीभूतस् त्रिदशवनिता वेद्धुम् अङ्गेष्व् अनङ्गः
पटुः सूर्यातपश् चापि प्रायशो ऽल्पजलाशयः देवीविवाहसमये ग्रीष्म आगाद् धिमाचलम्
स चापि तरुभिस् तत्र बहुभिः कुसुमोत्करैः शोभयाम् आस शृङ्गाणि प्रालेयाद्रेः समन्ततः
तथापि च गिरौ तत्र वायवः सुमनोहराः ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः
वाप्यः प्रफुल्लपद्मौघकेसरारुणमूर्तयः अभवंस् तटसंघुष्टफलहंसकदम्बकाः
तथा कुरबकाश् चापि कुसुमापाण्डुमूर्तयः सर्वेषु नगशृङ्गेषु भ्रमरावलिसेविताः
बकुलाश् च नितम्बेषु विशालेषु महीभृतः उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः
इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः हिमगिरितनयाविवाहभूत्यै षड् उपययुर् ऋतवो मुनिप्रवीराः
तत एवं प्रवृत्ते तु सर्वभूतसमागमे नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः
शैलपुत्रीम् अलंकृत्य योग्याभरणसंपदा पुरं प्रवेशितवांस् तां स्वयम् आदाय भो द्विजाः
ततस् तु पुनर् एवेशम् अहं चैवोक्तवान् विभुम् हविर् जुहोमि वह्नौ ते उपाध्यायपदे स्थितः
ददासि मह्यं यद्य् आज्ञां कर्तव्यो ऽयं क्रियाविधिः माम् आह शंकरश् चैवं देवदेवो जगत्पतिः
यद् उद्दिष्टं सुरेशान तत् कुरुष्व यथेप्सितम् कर्तास्मि वचनं सर्वं ब्रह्मंस् तव जगद्विभो
ततश् चाहं प्रहृष्टात्मा कुशान् आदाय सत्वरम् हस्तं देवस्य देव्याश् च योगबन्धेन युक्तवान्
ज्वलनश् च स्वयं तत्र कृताञ्जलिपुटः स्थितः श्रुतिगीतैर् महामन्त्रैर् मूर्तिमद्भिर् उपस्थितैः
यथोक्तविधिना हुत्वा सर्पिस् तद् अमृतं हविः ततस् तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम्
मुक्त्वा हस्तसमायोगं सहितः सर्वदैवतैः पुत्रैश् च मानसैः सिद्धैः प्रहृष्टेनान्तरात्मना