विलोलपिङ्गलस्पष्टविद्युल्लेखाविहासिता कुमुदापीडशुक्लाभिर् बलाकाभिश् च शोभिता
प्रत्यग्रसंजातशिलीन्ध्रकन्दली लताद्रुमाद्युद्गतपल्लवा शुभा शुभाम्बुधाराप्रणयप्रबोधितैर् महालसैर् भेकगणैश् च नादिता
प्रियेषु मानोद्धतमानसानां मनस्विनीनाम् अपि कामिनीनाम् मयूरकेकाभिरुतैः क्षणेन मनोहरैर् मानविभङ्गहेतुभिः
तथा विवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता
विचित्रपुष्पाम्बुभवैः सुगन्धिभिर् घनाम्बुसंपर्कतया सुशीतलैः विकम्पयन्ती पवनैर् मनोहरैः सुराङ्गनानाम् अलकावलीः शुभाः
गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसिक्तोदकचारुदूर्वा निरीक्षिता सादरम् उत्सुकाभिर् निश्वासधूम्रं पथिकाङ्गनाभिः
हंसनूपुरशब्दाढ्या समुन्नतपयोधरा चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना
असितजलदधीरध्वानवित्रस्तहंसा विमलसलिलधारोत्पातनम्रोत्पलाग्रा सुरभिकुसुमरेणुकॣप्तसर्वाङ्गशोभा गिरिदुहितृविवाहे प्रावृड् आविर्बभूव
मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्भवस्तनी हंसनूपुरनिह्रादा सर्वसस्यदिगन्तरा
विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला प्रफुल्लेन्दीवरश्यामविलोचनमनोहरा
पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी नवश्यामलताश्यामरोमराजिपुरस्कृता
चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम्
समदालिकुलोद्गीतमधुरस्वरभाषिणी चलत्कुमुदसंघातचारुकुण्डलशोभिनी
रक्ताशोकप्रशाखोत्थपल्लवाङ्गुलिधारिणी तत्पुष्पसंचयमयैर् वासोभिः समलंकृता
रक्तोत्पलाग्रचरणा जातीपुष्पनखावली कदलीस्तम्भवामोरूः शशाङ्कवदना तथा
सर्वलक्षणसंपन्ना सर्वालंकारभूषिता प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा
निर्मुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना नीलाम्भोजविलोचना रविकरप्रोद्भिन्नपद्मस्तनी नानापुष्परजःसुगन्धिपवनप्रह्रादनी चेतसां तत्रासीत् कलहंसनूपुररवा देव्या विवाहे शरत्
अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा ऋतू हेमन्तशिशिरौ आजग्मतुर् अतिद्युती
ताभ्याम् ऋतुभ्यां संप्राप्तो हिमवान् स नगोत्तमः प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ
तेन प्रालेयवर्षेण घनेनैव हिमालयः अगाधेन तदा रेजे क्षीरोद इव सागरः
ऋतुपार्ययसंप्राप्तो बभूव स महागिरिः साधूपचारात् सहसा कृतार्थ इव दुर्जनः
प्रालेयपटलच्छन्नैः शृङ्गैस् तु शुशुभे नगः छत्त्रैर् इव महाभागैः पाण्डरैः पृथिवीपतिः
मनोभवोद्रेककराः सुराणां सुराङ्गनानां च मुहुः समीराः स्वच्छाम्बुपूर्णाश् च तथा नलिन्यः पद्मोत्पलानां कुसुमैर् उपेताः
विवाहे गुरुकन्याया वसन्तः समगाद् ऋतुः
ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतरा बभूवुः नात्युष्णशीतानि पयःसरांसि किञ्जल्कचूर्णैः कपिलीकृतानि
प्रियङ्गूश् चूततरवश् चूतांश् चापि प्रियङ्गवः तर्जयन्त इवान्योन्यं मञ्जरीभिश् चकाशिरे
हिमशृङ्गेषु शुक्लेषु तिलकाः कुसुमोत्कराः शुशुभुः कार्यम् उद्दिश्य वृद्धा इव समागताः
फुल्लाशोकलतास् तत्र रेजिरे शालसंश्रिताः कामिन्य इव कान्तानां कण्ठालम्बितबाहवः
अशोकसर्जार्जुनकोविदाराः पुंनागनागेश्वरकर्णिकाराः लवङ्गतालागुरुसप्तपर्णा न्यग्रोधशोभाञ्जननारिकेलाः
वृक्षास् तथान्ये फलपुष्पवन्तो दृश्या बभूवुः सुमनोहराङ्गाः जलाशयाश् चैव सुवर्णतोयाश् चक्राङ्गकारण्डवहंसजुष्टाः