भास्वत्स्फटिकभित्तिश् च मुक्ताहारप्रलम्बिता तस्मिन् द्वारि पुरे रम्य उद्वाहार्थं विनिर्मिता
शुशुभे देवदेवस्य महेशस्य महात्मनः सोमादित्यौ समं तत्र तापयन्तौ महामणी
सौरभेयं मनोरम्यं गन्धम् आदाय मारुतः प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन्
समुद्रास् तत्र चत्वारः शक्राद्याश् च सुरोत्तमाः देवनद्यो महानद्यः सिद्धा मुनय एव च
गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः औदकाः खेचराश् चान्ये किंनरा देवचारणाः
तुम्बुरुर् नारदो हाहा हूहूश् चैव तु सामगाः रम्याण्य् आदाय वाद्यानि तत्राजग्मुस् तदा पुरम्
ऋषयस् तु कथास् तत्र वेदगीतास् तपोधनाः पुण्यान् वैवाहिकान् मन्त्राञ् जेपुः संहृष्टमानसाः
जगतो मातरः सर्वा देवकन्याश् च कृत्स्नशः गायन्ति हर्षिताः सर्वा उद्वाहे परमेष्ठिनः
ऋतवः षट् समं तत्र नानागन्धसुखावहाः उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः
नीलजीमूतसंकाशैर् मन्त्रध्वनिप्रहर्षिभिः केकायमानैः शिखिभिर् नृत्यमानैश् च सर्वशः
विलोलपिङ्गलस्पष्टविद्युल्लेखाविहासिता कुमुदापीडशुक्लाभिर् बलाकाभिश् च शोभिता
प्रत्यग्रसंजातशिलीन्ध्रकन्दली लताद्रुमाद्युद्गतपल्लवा शुभा शुभाम्बुधाराप्रणयप्रबोधितैर् महालसैर् भेकगणैश् च नादिता
प्रियेषु मानोद्धतमानसानां मनस्विनीनाम् अपि कामिनीनाम् मयूरकेकाभिरुतैः क्षणेन मनोहरैर् मानविभङ्गहेतुभिः
तथा विवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता
विचित्रपुष्पाम्बुभवैः सुगन्धिभिर् घनाम्बुसंपर्कतया सुशीतलैः विकम्पयन्ती पवनैर् मनोहरैः सुराङ्गनानाम् अलकावलीः शुभाः
गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसिक्तोदकचारुदूर्वा निरीक्षिता सादरम् उत्सुकाभिर् निश्वासधूम्रं पथिकाङ्गनाभिः
हंसनूपुरशब्दाढ्या समुन्नतपयोधरा चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना
असितजलदधीरध्वानवित्रस्तहंसा विमलसलिलधारोत्पातनम्रोत्पलाग्रा सुरभिकुसुमरेणुकॣप्तसर्वाङ्गशोभा गिरिदुहितृविवाहे प्रावृड् आविर्बभूव
मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्भवस्तनी हंसनूपुरनिह्रादा सर्वसस्यदिगन्तरा
विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला प्रफुल्लेन्दीवरश्यामविलोचनमनोहरा
पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी नवश्यामलताश्यामरोमराजिपुरस्कृता
चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम्
समदालिकुलोद्गीतमधुरस्वरभाषिणी चलत्कुमुदसंघातचारुकुण्डलशोभिनी
रक्ताशोकप्रशाखोत्थपल्लवाङ्गुलिधारिणी तत्पुष्पसंचयमयैर् वासोभिः समलंकृता
रक्तोत्पलाग्रचरणा जातीपुष्पनखावली कदलीस्तम्भवामोरूः शशाङ्कवदना तथा
सर्वलक्षणसंपन्ना सर्वालंकारभूषिता प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा
निर्मुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना नीलाम्भोजविलोचना रविकरप्रोद्भिन्नपद्मस्तनी नानापुष्परजःसुगन्धिपवनप्रह्रादनी चेतसां तत्रासीत् कलहंसनूपुररवा देव्या विवाहे शरत्
अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा ऋतू हेमन्तशिशिरौ आजग्मतुर् अतिद्युती
ताभ्याम् ऋतुभ्यां संप्राप्तो हिमवान् स नगोत्तमः प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ
तेन प्रालेयवर्षेण घनेनैव हिमालयः अगाधेन तदा रेजे क्षीरोद इव सागरः