पत्नीरूपं समास्थाय जगत्कारणम् आगता नमस् तुभ्यं महादेव देव्या वै सहिताय च
प्रसादात् तव देवेश नियोगाच् च मया प्रजाः देवाद्यास् तु इमाः सृष्टा मूढास् त्वद्योगमायया
कुरु प्रसादम् एतेषां यथापूर्वं भवन्त्व् इमे तत एवम् अहं विप्रा विज्ञाप्य परमेश्वरम्
स्तम्भितान् सर्वदेवांस् तान् इदं चाहं तदोक्तवान् मूढाश् च देवताः सर्वा नैनं बुध्यत शंकरम्
गच्छध्वं शरणं शीघ्रम् एनम् एव महेश्वरम् सार्धं मयैव देवेशं परमात्मानम् अव्ययम्
ततस् ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः प्रणेमुर् मनसा शर्वं भावशुद्धेन चेतसा
अथ तेषां प्रसन्नो ऽभूद् देवदेवो महेश्वरः यथापूर्वं चकाराशु देवतानां तनूस् तदा
तत एवं प्रवृत्ते तु सर्वदेवनिवारणे वपुश् चकार देवेशस् त्र्यक्षं परमम् अद्भुतम्
तेजसा तस्य ते ध्वस्ताश् चक्षुः सर्वे न्यमीलयन् तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिशक्तिमत्
प्रादात् परमदेवेशम् अपश्यंस् ते तदा विभुम् ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम्
शक्राद्या मेनिरे देवाः सर्व एव सुरेश्वराः तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम्
पादयोः स्थापयाम् आस स्रङ्मालाम् अमितद्युतिः साधु साध्व् इति ते होचुः सर्वे देवाः पुनर् विभुम्
सह देव्या नमश् चक्रुः शिरोभिर् भूतलाश्रितैः अथास्मिन्न् अन्तरे विप्रास् तम् अहं दैवतैः सह
हिमवन्तं महाशैलम् उक्तवांश् च महाद्युतिम् श्लाघ्यः पूज्यश् च वन्द्यश् च सर्वेषां त्वं महान् असि
शर्वेण सह संबन्धो यस्य ते ऽभ्युदयो महान् क्रियतां चारुर् उद्वाहः किमर्थं स्थीयते परम् ततः प्रणम्य हिमवांस् तदा मां प्रत्यभाषत
त्वम् एव कारणं देव यस्य सर्वोदये मम प्रसादः सहसोत्पन्नो हेतुश् चापि त्वम् एव हि उद्वाहस् तु यदा यादृक् तद् विधत्स्व पितामह
तत एवं वचः श्रुत्वा गिरिराजस्य भो द्विजाः उद्वाहः क्रियतां देव इत्य् अहं चोक्तवान् विभुम्
माम् आह शंकरो देवो यथेष्टम् इति लोकपः तत्क्षणाच् च ततो विप्रा अस्माभिर् निर्मितं पुरम्
उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् रत्नानि मणयश् चित्रा हेममौक्तिकम् एव च
मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम् चित्रा मारकती भूमिः सुवर्णस्तम्भशोभिता
भास्वत्स्फटिकभित्तिश् च मुक्ताहारप्रलम्बिता तस्मिन् द्वारि पुरे रम्य उद्वाहार्थं विनिर्मिता
शुशुभे देवदेवस्य महेशस्य महात्मनः सोमादित्यौ समं तत्र तापयन्तौ महामणी
सौरभेयं मनोरम्यं गन्धम् आदाय मारुतः प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन्
समुद्रास् तत्र चत्वारः शक्राद्याश् च सुरोत्तमाः देवनद्यो महानद्यः सिद्धा मुनय एव च
गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः औदकाः खेचराश् चान्ये किंनरा देवचारणाः
तुम्बुरुर् नारदो हाहा हूहूश् चैव तु सामगाः रम्याण्य् आदाय वाद्यानि तत्राजग्मुस् तदा पुरम्
ऋषयस् तु कथास् तत्र वेदगीतास् तपोधनाः पुण्यान् वैवाहिकान् मन्त्राञ् जेपुः संहृष्टमानसाः
जगतो मातरः सर्वा देवकन्याश् च कृत्स्नशः गायन्ति हर्षिताः सर्वा उद्वाहे परमेष्ठिनः
ऋतवः षट् समं तत्र नानागन्धसुखावहाः उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः
नीलजीमूतसंकाशैर् मन्त्रध्वनिप्रहर्षिभिः केकायमानैः शिखिभिर् नृत्यमानैश् च सर्वशः