गन्धर्वसंघैः सहितो ऽप्सरोभिः शक्राज्ञया तत्र समाजगाम अन्ये च देवास् त्रिदिवात् तदानीं पृथक् पृथक् चारुगृहीतवेशाः
आजग्मुर् आरुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिंनराश् च शचीपतिस् तत्र सुरेन्द्रमध्ये रराज राजाधिकलक्ष्यमूर्तिः
आज्ञाबलैश्वर्यकृतप्रमोदः स्वयंवरं तं समलंचकार हेतुस् त्रिलोकस्य जगत्प्रसूतेर् माता च तेषां ससुरासुराणाम्
पत्नी च शंभोः पुरुषस्य धीमतो गीता पुराणे प्रकृतिः परा या दक्षस्य कोपाद् धिमवद्गृहं सा कार्यार्थमायात् त्रिदिवौकसां हि
विमानपृष्ठे मणिहेमजुष्टे स्थिता वलच्चामरवीजिताङ्गी सर्वर्तुपुष्पां सुसुगन्धमालां प्रगृह्य देवी प्रसभं प्रतस्थे
मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि शक्राद्यैर् आगतैर् देवैः स्वयंवर उपागते
देव्या जिज्ञासया शंभुर् भूत्वा पञ्चशिखः शिशुः उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः
ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम् ज्ञात्वा तं समवध्यानाज् जगृहे प्रीतिसंयुता
अथ सा शुद्धसंकल्पा काङ्क्षितं प्राप्य सत्पतिम् निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम्
ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् को ऽयम् अत्रेति संमन्त्र्य चुक्रुशुर् भृशमोहिताः
वज्रम् आहारयत् तस्य बाहुम् उत्क्षिप्य वृत्रहा स बाहुर् उत्थितस् तस्य तथैव समतिष्ठत
स्तम्भितः शिशुरूपेण देवदेवेन शंभुना वज्रं क्षेप्तुं न शशाक वृत्रहा चलितुं न च
भगो नाम ततो देव आदित्यः काश्यपो बली उत्क्षिप्य आयुधं दीप्तं छेत्तुम् इच्छन् विमोहितः
तस्यापि भगवान् बाहुं तथैवास्तम्भयत् तदा बलं तेजश् च योगश् च तथैवास्तम्भयद् विभुः
शिरः प्रकम्पयन् विष्णुः शंकरं समवैक्षत अथ तेषु स्थितेष्व् एवं मन्युमत्सु सुरेषु च
अहं परमसंविग्नो ध्यानम् आस्थाय सादरम् बुद्धवान् देवदेवेशम् उमोत्सङ्गे समास्थितम्
ज्ञात्वाहं परमेशानं शीघ्रम् उत्थाय सादरम् ववन्दे चरणं शंभोः स्तुतवांस् तम् अहं द्विजाः
पुराणैः सामसंगीतैः पुण्याख्यैर् गुह्यनामभिः अजस् त्वम् अजरो देवः स्रष्टा विभुः परापरम्
प्रधानं पुरुषो यस् त्वं ब्रह्म ध्येयं तद् अक्षरम् अमृतं परमात्मा च ईश्वरः कारणं महत्
ब्रह्मसृक् प्रकृतेः स्रष्टा सर्वकृत् प्रकृतेः परः इयं च प्रकृतिर् देवी सदा ते सृष्टिकारणम्
पत्नीरूपं समास्थाय जगत्कारणम् आगता नमस् तुभ्यं महादेव देव्या वै सहिताय च
प्रसादात् तव देवेश नियोगाच् च मया प्रजाः देवाद्यास् तु इमाः सृष्टा मूढास् त्वद्योगमायया
कुरु प्रसादम् एतेषां यथापूर्वं भवन्त्व् इमे तत एवम् अहं विप्रा विज्ञाप्य परमेश्वरम्
स्तम्भितान् सर्वदेवांस् तान् इदं चाहं तदोक्तवान् मूढाश् च देवताः सर्वा नैनं बुध्यत शंकरम्
गच्छध्वं शरणं शीघ्रम् एनम् एव महेश्वरम् सार्धं मयैव देवेशं परमात्मानम् अव्ययम्
ततस् ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः प्रणेमुर् मनसा शर्वं भावशुद्धेन चेतसा
अथ तेषां प्रसन्नो ऽभूद् देवदेवो महेश्वरः यथापूर्वं चकाराशु देवतानां तनूस् तदा
तत एवं प्रवृत्ते तु सर्वदेवनिवारणे वपुश् चकार देवेशस् त्र्यक्षं परमम् अद्भुतम्
तेजसा तस्य ते ध्वस्ताश् चक्षुः सर्वे न्यमीलयन् तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिशक्तिमत्
प्रादात् परमदेवेशम् अपश्यंस् ते तदा विभुम् ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम्