दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विहितं हि ते नहि कश्चिन् नरो ग्राह प्रदत्तं पुनर् आहरेत्
दत्तम् एतन् मया तुभ्यं नाददानि हि तत् पुनः त्वय्य् एव रमताम् एतद् बालश् चायं विमुच्यताम्
तथोक्तस् तां प्रशस्याथ मुक्त्वा बालं नमस्य च देवीम् आदित्यावभासस् तत्रैवान्तरधीयत
बालो ऽपि सरसस् तीरे मुक्तो ग्राहेण वै तदा स्वप्नलब्ध इवार्थौघस् तत्रैवान्तरधीयत
तपसो ऽपचयं मत्वा देवी हिमगिरीन्द्रजा भूय एव तपः कर्तुम् आरेभे नियमस्थिता
कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् प्रोवाच वचनं विप्रा मा कृथास् तप इत्य् उत
मह्यम् एतत् तपो देवि त्वया दत्तं महाव्रते तत् तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा
इति लब्ध्वा वरं देवी तपसो ऽक्षयम् उत्तमम् स्वयंवरम् उदीक्षन्ती तस्थौ प्रीता मुदा युता
इदं पठेद् यो हि नरः सदैव बालानुभावाचरणं हि शंभोः स देहभेदं समवाप्य पूतो भवेद् गणेशस् तु कुमारतुल्यः
विस्तृते हिमवत्पृष्ठे विमानशतसंकुले अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः
अथ पर्वतराजो ऽसौ हिमवान् ध्यानकोविदः दुहितुर् देवदेवेन ज्ञात्वा तद् अभिमन्त्रितम्
जानन्न् अपि महाशैलः समयारक्षणेप्सया स्वयंवरं ततो देव्याः सर्वलोकेष्व् अघोषयत्
देवदानवसिद्धानां सर्वलोकनिवासिनाम् वृणुयात् परमेशानं समक्षं यदि मे सुता
तद् एव सुकृतं श्लाघ्यं ममाभ्युदयसंमतम् इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम्
आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः कृत्वा रत्नाकुलं देशं स्वयंवरम् अचीकरत्
अथैवम् आघोषितमात्र एव स्वयंवरे तत्र नगेन्द्रपुत्र्याः देवादयः सर्वजगन्निवासाः समाययुस् तत्र गृहीतवेशाः
प्रफुल्लपद्मासनसंनिविष्टः सिद्धैर् वृतो योगिभिर् अप्रमेयैः विज्ञापितस् तेन महीध्रराज्ञा आगतस् तदाहं त्रिदिवैर् उपेतः
अक्ष्णां सहस्रं सुरराट् स बिभ्रद् दिव्याङ्गहारस्रगुदाररूपः ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम्
आरुह्य सर्वामरराट् स वज्रं बिभ्रत् समागात् पुरतः सुराणाम् तेजःप्रभावाधिकतुल्यरूपी प्रोद्भासयन् सर्वदिशो विवस्वान्
हैमं विमानं सवलत्पताकम् आरूढ आगात् त्वरितं जवेन मणिप्रदीप्तोज्ज्वलकुण्डलश् च वह्न्यर्कतेजःप्रतिमे विमाने
समभ्यगात् कश्यपसूनुर् एक आदित्यमध्याद् भगनामधारी पीनाङ्गयष्टिः सुकृताङ्गहार तेजोबलाज्ञासदृशप्रभावः
दण्डं समागृह्य कृतान्त आगाद् आरुह्य भीमं महिषं जवेन महामहीध्रोच्छ्रयपीनगात्रः स्वर्णादिरत्नाञ्चितचारुवेशः
समीरणः सर्वजगद्विभर्ता विमानम् आरुह्य समभ्यगाद् धि संतापयन् सर्वसुरासुरेशांस् तेजोधिकस् तेजसि संनिविष्टः
वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन् प्रतस्थौ वरवेशधारी नानामणिप्रज्वलिताङ्गयष्टिर् जगद्वरं दिव्यविमानम् अग्र्यम्
आरुह्य सर्वद्रविणाधिपेशः स राजराजस् त्वरितो ऽभ्यगाच् च आप्याययन् सर्वसुरासुरेशान् कान्त्या च वेशेन च चारुरूपः
ज्वलन् महारत्नविचित्ररूपं विमानम् आरुह्य शशी समायात् श्यामाङ्गयष्टिः सुविचित्रवेशः सर्वाङ्ग आबद्धसुगन्धिमाल्यः
तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरो ऽसौ त्वरितः समेतः अथाश्विनौ चापि भिषग्वरौ द्वाव् एकं विमानं त्वरयाधिरुह्य
मनोहरौ प्रज्वलचारुवेशौ आजग्मतुर् देववरौ सुवीरौ सहस्रनागः स्फुरदग्निवर्णं बिभ्रत् तदानीं ज्वलनार्कतेजाः
सार्धं स नागैर् अपरैर् महात्मा विमानम् आरुह्य समभ्यगाच् च दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिलतुल्यभासाम्
वरानुरूपं प्रविधाय वेशं वृन्दं समागात् पुरतः सुराणाम् गन्धर्वराजः स च चारुरूपी दिव्याङ्गदो दिव्यविमानचारी