प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः
यथा शोचामि पितरं मातरं च तपस्विनीम् ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनम् उत्सुकौ
प्रियपुत्राव् एकपुत्रौ प्राणान् नूनं त्यजिष्यतः अहो बत सुकष्टं वै यो ऽहं बालो ऽकृताश्रमः अन्तर्ग्राहेण ग्रस्तस् तु यास्यामि निधनं किल
श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्य् असौ द्विजः
सापश्यद् इन्दुवदना बालकं चारुरूपिणम् ग्राहस्य मुखम् आपन्नं वेपमानम् अवस्थितम्
सो ऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीम् उपागताम् तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि
स कृष्यमाणस् तेजस्वी नादम् आर्तं तदाकरोत् अथाह देवी दुःखार्ता बालं दृष्ट्वा ग्रहावृतम्
ग्राहराज महासत्त्व बालकं ह्य् एकपुत्रकम् विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम
यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् स आहारो मम पुरा विहितो लोककर्तृभिः
सो ऽयं मम महाभागे षष्ठे ऽहनि गिरीन्द्रजे ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथंचन
यन् मया हिमवच्छृङ्गे चरितं तप उत्तमम् तेन बालम् इमं मुञ्च ग्राहराज नमो ऽस्तु ते
मा व्ययस् तपसो देवि भृशं बाले शुभानने यद् ब्रवीमि कुरु श्रेष्ठे तथा मोक्षम् अवाप्स्यति
ग्राहाधिप वदस्वाशु यत् सताम् अविगर्हितम् तत् कृतं नात्र संदेहो यतो मे ब्राह्मणाः प्रियाः
यत् कृतं वै तपः किंचिद् भवत्या स्वल्पम् उत्तमम् तत् सर्वं मे प्रयच्छाशु ततो मोक्षम् अवाप्स्यति
जन्मप्रभृति यत् पुण्यं महाग्राह कृतं मया तत् ते सर्वं मया दत्तं बालं मुञ्च महाग्रह
प्रजज्वाल ततो ग्राहस् तपसा तेन भूषितः आदित्य इव मध्याह्ने दुर्निरीक्षस् तदाभवत् उवाच चैवं तुष्टात्मा देवीं लोकस्य धारिणीम्
देवि किं कृत्यम् एतत् ते सुनिश्चित्य महाव्रते तपसो ऽप्य् अर्जनं दुःखं तस्य त्यागो न शस्यते
गृहाण तप एव त्वं बालं चेमं सुमध्यमे तुष्टो ऽस्मि ते विप्रभक्त्या वरं तस्माद् ददामि ते सा त्व् एवम् उक्ता ग्राहेण उवाचेदं महाव्रता
देहेनापि मया ग्राह रक्ष्यो विप्रः प्रयत्नतः तपः पुनर् मया प्राप्यं न प्राप्यो ब्राह्मणः पुनः
सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् न विप्रेभ्यस् तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः
दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विहितं हि ते नहि कश्चिन् नरो ग्राह प्रदत्तं पुनर् आहरेत्
दत्तम् एतन् मया तुभ्यं नाददानि हि तत् पुनः त्वय्य् एव रमताम् एतद् बालश् चायं विमुच्यताम्
तथोक्तस् तां प्रशस्याथ मुक्त्वा बालं नमस्य च देवीम् आदित्यावभासस् तत्रैवान्तरधीयत
बालो ऽपि सरसस् तीरे मुक्तो ग्राहेण वै तदा स्वप्नलब्ध इवार्थौघस् तत्रैवान्तरधीयत
तपसो ऽपचयं मत्वा देवी हिमगिरीन्द्रजा भूय एव तपः कर्तुम् आरेभे नियमस्थिता
कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् प्रोवाच वचनं विप्रा मा कृथास् तप इत्य् उत
मह्यम् एतत् तपो देवि त्वया दत्तं महाव्रते तत् तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा
इति लब्ध्वा वरं देवी तपसो ऽक्षयम् उत्तमम् स्वयंवरम् उदीक्षन्ती तस्थौ प्रीता मुदा युता
इदं पठेद् यो हि नरः सदैव बालानुभावाचरणं हि शंभोः स देहभेदं समवाप्य पूतो भवेद् गणेशस् तु कुमारतुल्यः
विस्तृते हिमवत्पृष्ठे विमानशतसंकुले अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः