देवि पित्रा त्व् अनुज्ञातः स्वयंवर इति श्रुतिः तत्र त्वं वरयित्री यं स ते भर्ता भवेद् इति
तद् आपृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने रूपवन्तं समुत्सृज्य वृणोष्य् असदृशं कथम्
तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् भावं च रुद्रनिहितं प्रसादं मनसस् तथा
संप्राप्योवाच देवेशं मा ते ऽभूद् बुद्धिर् अन्यथा अहं त्वां वरयिष्यामि नाद्भुतं तु कथंचन
अथवा ते ऽस्ति संदेहो मयि विप्र कथंचन इहैव त्वां महाभाग वरयामि मनोगतम्
गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता स्कन्धे शंभोः समाधाय देवी प्राह वृतो ऽसि मे
ततः स भगवान् देवस् तया देव्या वृतस् तदा उवाच तम् अशोकं वै वाचा संजीवयन्न् इव
यस्मात् तव सुपुण्येन स्तबकेन वृतो ऽस्म्य् अहम् तस्मात् त्वं जरया त्यक्तस् त्व् अमरः संभविष्यसि
कामरूपी कामपुष्पः कामदो दयितो मम सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः
सर्वान्नभक्षकश् चैव अमृतस्वाद एव च सर्वगन्धश् च देवानां भविष्यसि दृढप्रियः
निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः आश्रमं वेदम् अत्यर्थं चित्रकूटेति विश्रुतम्
यो हि यास्यति पुण्यार्थी सो ऽश्वमेधम् अवाप्स्यति यस् तु तत्र मृतश् चापि ब्रह्मलोकं स गच्छति
यश् चात्र नियमैर् युक्तः प्राणान् सम्यक् परित्यजेत् स देव्यास् तपसा युक्तो महागणपतिर् भवेत्
एवम् उक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः
सापि देवी गते तस्मिन् भगवत्य् अमितात्मनि तत एवोन्मुखी भूत्वा शिलायां संबभूव ह
उन्मुखी सा भवे तस्मिन् महेशे जगतां प्रभौ निशेव चन्द्ररहिता न बभौ विमनास् तदा
अथ शुश्राव शब्दं च बालस्यार्तस्य शैलजा सरस्य् उदकसंपूर्णे समीपे चाश्रमस्य च
स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तो ऽभवत् तदा
योगमायां समास्थाय प्रपञ्चोद्भवकारणम् तद् रूपं सरसो मध्ये कृत्वैवं समभाषत
त्रातु मां कश्चिद् इत्य् आह ग्राहेण हृतचेतसम् धिक् कष्टं बाल एवाहम् अप्राप्तार्थमनोरथः
प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः
यथा शोचामि पितरं मातरं च तपस्विनीम् ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनम् उत्सुकौ
प्रियपुत्राव् एकपुत्रौ प्राणान् नूनं त्यजिष्यतः अहो बत सुकष्टं वै यो ऽहं बालो ऽकृताश्रमः अन्तर्ग्राहेण ग्रस्तस् तु यास्यामि निधनं किल
श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्य् असौ द्विजः
सापश्यद् इन्दुवदना बालकं चारुरूपिणम् ग्राहस्य मुखम् आपन्नं वेपमानम् अवस्थितम्
सो ऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीम् उपागताम् तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि
स कृष्यमाणस् तेजस्वी नादम् आर्तं तदाकरोत् अथाह देवी दुःखार्ता बालं दृष्ट्वा ग्रहावृतम्
ग्राहराज महासत्त्व बालकं ह्य् एकपुत्रकम् विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम
यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् स आहारो मम पुरा विहितो लोककर्तृभिः
सो ऽयं मम महाभागे षष्ठे ऽहनि गिरीन्द्रजे ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथंचन