द्विजानां वीरुधां चैव नक्षत्रग्रहयोस् तथा यज्ञानां तपसां चैव सोमं राज्ये ऽभ्यषेचयत्
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम् आदित्यानां तथा विष्णुं वसूनाम् अथ पावकम्
प्रजापतीनां दक्षं तु मरुताम् अथ वासवम् दैत्यानां दानवानां वै प्रह्रादम् अमितौजसम्
वैवस्वतं पितॄणां च यमं राज्ये ऽभ्यषेचयत् यक्षाणां राक्षसानां च पार्थिवानां तथैव च
सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् शैलानां हिमवन्तं च नदीनाम् अथ सागरम्
गन्धर्वाणाम् अधिपतिं चक्रे चित्ररथं प्रभुम् नागानां वासुकिं चक्रे सर्पाणाम् अथ तक्षकम्
वारणानां तु राजानम् ऐरावतम् अथादिशत् उच्चैःश्रवसम् अश्वानां गरुडं चैव पक्षिणाम्
मृगाणाम् अथ शार्दूलं गोवृषं तु गवां पतिम् वनस्पतीनां राजानं प्लक्षम् एवाभ्यषेचयत्
एवं विभज्य राज्यानि क्रमेणैव पितामहः दिशां पालान् अथ ततः स्थापयाम् आस स प्रभुः
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः दिशः पालं सुधन्वानं राजानं सो ऽभ्यषेचयत्
दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः पुत्रं शङ्खपदं नाम राजानं सो ऽभ्यषेचयत्
पश्चिमस्यां दिशि तथा रजसः पुत्रम् अच्युतम् केतुमन्तं महात्मानं राजानं सो ऽभ्यषेचयत्
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः उदीच्यां दिशि दुर्धर्षं राजानं सो ऽभ्यषेचयत्
तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना यथाप्रदेशम् अद्यापि धर्मेण प्रतिपाल्यते
राजसूयाभिषिक्तस् तु पृथुर् एतैर् नराधिपैः वेददृष्टेन विधिना राजा राज्ये नराधिपः
ततो मन्वन्तरे ऽतीते चाक्षुषे ऽमिततेजसि वैवस्वताय मनवे पृथिव्यां राज्यम् आदिशत्
तस्य विस्तरम् आख्यास्ये मनोर् वैवस्वतस्य ह भवतां चानुकूल्याय यदि श्रोतुम् इहेच्छथ महद् एतद् अधिष्ठानं पुराणे तद् अधिष्ठितम्
विस्तरेण पृथोर् जन्म लोमहर्षण कीर्तय यथा महात्मना तेन दुग्धा वेयं वसुंधरा
यथा वापि नृभिर् दुग्धा यथा देवैर् महर्षिभिः यथा दैत्यैश् च नागैश् च यथा यक्षैर् यथा द्रुमैः
यथा शैलैः पिशाचैश् च गन्धर्वैश् च द्विजोत्तमैः राक्षसैश् च महासत्त्वैर् यथा दुग्धा वसुंधरा
तेषां पात्रविशेषांश् च वक्तुम् अर्हसि सुव्रत वत्सक्षीरविशेषांश् च दोग्धारं चानुपूर्वशः
यस्माच् च कारणात् पाणिर् वेणस्य मथितः पुरा क्रुद्धैर् महर्षिभिस् तात कारणं तच् च कीर्तय
शृणुध्वं कीर्तयिष्यामि पृथोर् वैण्यस्य विस्तरम् एकाग्राः प्रयताश् चैव पुण्यार्थं वै द्विजर्षभाः
नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य च कीर्तयेयम् इदं विप्राः कृतघ्नायाहिताय च
स्वर्ग्यं यशस्यम् आयुष्यं धन्यं वेदैश् च संमितम् रहस्यम् ऋषिभिः प्रोक्तं शृणुध्वं वै यथातथम्
यश् चेमं कीर्तयेन् नित्यं पृथोर् वैण्यस्य विस्तरम् ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम्
आसीद् धर्मस्य संगोप्ता पूर्वम् अत्रिसमः प्रभुः अत्रिवंशे समुत्पन्नस् त्व् अङ्गो नाम प्रजापतिः
तस्य पुत्रो ऽभवद् वेणो नात्यर्थं धर्मकोविदः जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः
स मातामहदोषेण तेन कालात्मजात्मजः स्वधर्मं पृष्ठतः कृत्वा कामलोभेष्व् अवर्तत
मर्यादां भेदयाम् आस धर्मोपेतां स पार्थिवः वेदधर्मान् अतिक्रम्य सो ऽधर्मनिरतो ऽभवत्