उवाच विकृतास्यश् च देवि त्वां वरयाम्य् अहम् अथोमा योगसंसिद्धा ज्ञात्वा शंकरम् आगतम्
अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया तम् उवाचार्घपाद्याभ्यां मधुपर्केण चैव ह
संपूज्य सुमनोभिस् तं ब्राह्मणं ब्राह्मणप्रिया
भगवन् न स्वतन्त्राहं पिता मे त्व् अग्रणीर् गृहे स प्रभुर् मम दाने वै कन्याहं द्विजपुंगव
गत्वा याचस्व पितरं मम शैलेन्द्रम् अव्ययम् स चेद् ददाति मां विप्र तुभ्यं तद् उचितं मम
ततः स भगवान् देवस् तथैव विकृतः प्रभुः उवाच शैलराजानं सुतां मे यच्छ शैलराट्
स तं विकृतरूपेण ज्ञात्वा रुद्रम् अथाव्ययम् भीतः शापाच् च विमना इदं वचनम् अब्रवीत्
भगवन् नावमन्ये ऽहं ब्राह्मणान् भुवि देवताः मनीषितं तु यत् पूर्वं तच् छृणुष्व महामते
स्वयंवरो मे दुहितुर् भविता विप्रपूजितः वरयेद् यं स्वयं तत्र स भर्तास्या भविष्यति
तच् छ्रुत्वा शैलवचनं भगवान् वृषभध्वजः देव्याः समीपम् आगत्य इदम् आह महामनाः
देवि पित्रा त्व् अनुज्ञातः स्वयंवर इति श्रुतिः तत्र त्वं वरयित्री यं स ते भर्ता भवेद् इति
तद् आपृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने रूपवन्तं समुत्सृज्य वृणोष्य् असदृशं कथम्
तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् भावं च रुद्रनिहितं प्रसादं मनसस् तथा
संप्राप्योवाच देवेशं मा ते ऽभूद् बुद्धिर् अन्यथा अहं त्वां वरयिष्यामि नाद्भुतं तु कथंचन
अथवा ते ऽस्ति संदेहो मयि विप्र कथंचन इहैव त्वां महाभाग वरयामि मनोगतम्
गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थिता स्कन्धे शंभोः समाधाय देवी प्राह वृतो ऽसि मे
ततः स भगवान् देवस् तया देव्या वृतस् तदा उवाच तम् अशोकं वै वाचा संजीवयन्न् इव
यस्मात् तव सुपुण्येन स्तबकेन वृतो ऽस्म्य् अहम् तस्मात् त्वं जरया त्यक्तस् त्व् अमरः संभविष्यसि
कामरूपी कामपुष्पः कामदो दयितो मम सर्वाभरणपुष्पाढ्यः सर्वपुष्पफलोपगः
सर्वान्नभक्षकश् चैव अमृतस्वाद एव च सर्वगन्धश् च देवानां भविष्यसि दृढप्रियः
निर्भयः सर्वलोकेषु भविष्यसि सुनिर्वृतः आश्रमं वेदम् अत्यर्थं चित्रकूटेति विश्रुतम्
यो हि यास्यति पुण्यार्थी सो ऽश्वमेधम् अवाप्स्यति यस् तु तत्र मृतश् चापि ब्रह्मलोकं स गच्छति
यश् चात्र नियमैर् युक्तः प्राणान् सम्यक् परित्यजेत् स देव्यास् तपसा युक्तो महागणपतिर् भवेत्
एवम् उक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः
सापि देवी गते तस्मिन् भगवत्य् अमितात्मनि तत एवोन्मुखी भूत्वा शिलायां संबभूव ह
उन्मुखी सा भवे तस्मिन् महेशे जगतां प्रभौ निशेव चन्द्ररहिता न बभौ विमनास् तदा
अथ शुश्राव शब्दं च बालस्यार्तस्य शैलजा सरस्य् उदकसंपूर्णे समीपे चाश्रमस्य च
स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तो ऽभवत् तदा
योगमायां समास्थाय प्रपञ्चोद्भवकारणम् तद् रूपं सरसो मध्ये कृत्वैवं समभाषत
त्रातु मां कश्चिद् इत्य् आह ग्राहेण हृतचेतसम् धिक् कष्टं बाल एवाहम् अप्राप्तार्थमनोरथः