तस्य तद् वचनं श्रुत्वा गिरिराजस्य भो द्विजाः तदा तस्मै वरं चाहं दत्तवान् मनसेप्सितम्
कन्या भवित्री शैलेन्द्र तपसानेन सुव्रत यस्याः प्रभावात् सर्वत्र कीर्तिम् आप्स्यसि शोभनाम्
अर्चितः सर्वदेवानां तीर्थकोटिसमावृतः पावनश् चैव पुण्येन देवानाम् अपि सर्वतः
ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे
सो ऽपि कालेन शैलेन्द्रो मेनायाम् उदपादयत् अपर्णाम् एकपर्णां च तथा चैवैकपाटलाम्
न्यग्रोधम् एकपर्णं तु पाटलं चैकपाटलाम् अशित्वा त्व् एकपर्णां तु अनिकेतस् तपो ऽचरत्
शतं वर्षसहस्राणां दुश्चरं देवदानवैः आहारम् एकपर्णं तु एकपर्णा समाचरत्
पाटलेन तथैकेन विदधे चैकपाटला पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः
अपर्णा तु निराहारा तां माता प्रत्यभाषत निषेधयन्ती चो मेति मातृस्नेहेन दुःखिता
सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता
एतत् तु त्रिकुमारीकं जगत् स्थावरजङ्गमम् एतासां तपसां वृत्तं यावद् भूमिर् धरिष्यति
तपःशरीरास् ताः सर्वास् तिस्रो योगं समाश्रिताः सर्वाश् चैव महाभागास् तथा च स्थिरयौवनाः
ता लोकमातरश् चैव ब्रह्मचारिण्य एव च अनुगृह्णन्ति लोकांश् च तपसा स्वेन सर्वदा
उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी महायोगबलोपेता महादेवम् उपस्थिता
दत्तकश् चोशना तस्य पुत्रः स भृगुनन्दनः आसीत् तस्यैकपर्णा तु देवलं सुषुवे सुतम्
या तु तासां कुमारीणां तृतीया ह्य् एकपाटला पुत्रं सा तम् अलर्कस्य जैगीषव्यम् उपस्थिता
तस्याश् च शङ्खलिखितौ स्मृतौ पुत्राव् अयोनिजौ उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी
अथ तस्यास् तपोयोगात् त्रैलोक्यम् अखिलं तदा प्रधूपितम् इहालक्ष्य वचस् ताम् अहम् अब्रवम्
देवि किं तपसा लोकांस् तापयिष्यसि शोभने त्वया सृष्टम् इदं सर्वं मा कृत्वा तद् विनाशय
त्वं हि धारयसे लोकान् इमान् सर्वान् स्वतेजसा ब्रूहि किं ते जगन्मातः प्रार्थितं संप्रतीह नः
यदर्थं तपसो ह्य् अस्य चरणं मे पितामह त्वम् एव तद् विजानीषे ततः पृच्छसि किं पुनः
ततस् ताम् अब्रवं चाहं यदर्थं तप्यसे शुभे स त्वां स्वयम् उपागम्य इहैव वरयिष्यति
शर्व एव पतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः वयं सदैव यस्येमे वश्या वै किंकराः शुभे
स देवदेवः परमेश्वरः स्वयं स्वयंभुर् आयास्यति देवि ते ऽन्तिकम् उदाररूपो विकृतादिरूपः समानरूपो ऽपि न यस्य कस्यचित्
महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमो ऽप्रमेयः विनेन्दुना हीन्द्रसमानवर्चसा विभीषणं रूपम् इवास्थितो यः
ततस् ताम् अब्रुवन् देवास् तदा गत्वा तु सुन्दरीम् देवि शीघ्रेण कालेन धूर्जटिर् नीललोहितः
स भर्ता तव देवेशो भविता मा तपः कृथाः ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम्
जग्मुश् चादर्शनं तस्याः सा चापि विरराम ह सा देवी सूक्तम् इत्य् एवम् उक्त्वा स्वस्याश्रमे शुभे
द्वारि जातम् अशोकं च समुपाश्रित्य चास्थिता अथागाच् चन्द्रतिलकस् त्रिदशार्तिहरो हरः
विकृतं रूपम् आस्थाय ह्रस्वो बाहुक एव च विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः