जज्ञे रुद्राभिशापेन द्वितीयम् इति नः श्रुतम् भृग्वादयस् तु ते सर्वे जज्ञिरे वै महर्षयः
आद्ये त्रेतायुगे पूर्वं मनोर् वैवस्वतस्य ह देवस्य महतो यज्ञे वारुणीं बिभ्रतस् तनुम्
इत्य् एषो ऽनुशयो ह्य् आसीत् तयोर् जात्यन्तरे गतः प्रजापतेश् च दक्षस्य त्र्यम्बकस्य च धीमतः
तस्मान् नानुशयः कार्यो वरेष्व् इह कदाचन जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः जन्तोर् न भूतये ख्यातिस् तन् न कार्यं विजानता
कथं रोषेण सा पूर्वं दक्षस्य दुहिता सती त्यक्त्वा देहं पुनर् जाता गिरिराजगृहे प्रभो
देहान्तरे कथं तस्याः पूर्वदेहो बभूव ह भवेन सह संयोगः संवादश् च तयोः कथम्
स्वयंवरः कथं वृत्तस् तस्मिन् महति जन्मनि विवाहश् च जगन्नाथ सर्वाश्चर्यसमन्वितः
तत् सर्वं विस्तराद् ब्रह्मन् वक्तुम् अर्हसि सांप्रतम् श्रोतुम् इच्छामहे पुण्यां कथां चातिमनोहराम्
शृणुध्वं मुनिशार्दूलाः कथां पापप्रणाशिनीम् उमाशंकरयोः पुण्यां सर्वकामफलप्रदाम्
कदाचित् स्वगृहात् प्राप्तं कश्यपं द्विपदां वरम् अपृच्छद् धिमवान् वृत्तं लोके ख्यातिकरं हितम्
केनाक्षयाश् च लोकाः स्युः ख्यातिश् च परमा मुने तथैव चार्चनीयत्वं सत्सु तत् कथयस्व मे
अपत्येन महाबाहो सर्वम् एतद् अवाप्यते ममाख्यातिर् अपत्येन ब्रह्मणा ऋषिभिः सह
किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि वर्तयिष्यामि यच् चापि यथादृष्टं पुराचल
वाराणसीम् अहं गच्छन्न् अपश्यं संस्थितं दिवि विमानं सुनवं दिव्यम् अनौपम्यं महर्धिमत्
तस्याधस्ताद् आर्तनादं गर्तस्थाने शृणोम्य् अहम् तम् अहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः
अथागात् तत्र शैलेन्द्र विप्रो नियमवाञ् शुचिः तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः
अथ स व्रजमानस् तु व्याघ्रेणाभीषितो द्विजः विवेश तं तदा देशं स गर्तो यत्र भूधर
गर्तायां वीरणस्तम्बे लम्बमानांस् तदा मुनीन् अपश्यद् आर्तो दुःखार्तांस् तान् अपृच्छच् च स द्विजः
के यूयं वीरणस्तम्बे लम्बमाना ह्य् अधोमुखाः दुःखिताः केन मोक्षश् च युष्माकं भवितानघाः
वयं ते कृतपुण्यस्य पितरः सपितामहाः प्रपितामहाश् च क्लिश्यामस् तव दुष्टेन कर्मणा
नरको ऽयं महाभाग गर्तरूपेण संस्थितः त्वं चापि वीरणस्तम्बस् त्वयि लम्बामहे वयम्
यावत् त्वं जीवसे विप्र तावद् एव वयं स्थिताः मृते त्वयि गमिष्यामो नरकं पापचेतसः
यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् उत्पादयसि तेनास्मान् मुच्येम वयम् एनसः
नान्येन तपसा पुत्र तीर्थानां च फलेन च एतत् कुरु महाबुद्धे तारयस्व पितॄन् भयात्
स तथेति प्रतिज्ञाय आराध्य वृषभध्वजम् पितॄन् गर्तात् समुद्धृत्य गणपान् प्रचकार ह
स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः संमतो बलवांश् चैव रुद्रस्य गणपो ऽभवत्
तस्मात् कृत्वा तपो घोरम् अपत्यं गुणवद् भृशम् उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम्
स एवम् उक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः तपश् चकाराप्य् अतुलं येन तुष्टिर् अभून् मम
तदा तम् उत्पपाताहं वरदो ऽस्मीति चाब्रवम् ब्रूहि तुष्टो ऽस्मि शैलेन्द्र तपसानेन सुव्रत
भगवन् पुत्रम् इच्छामि गुणैः सर्वैर् अलंकृतम् एवं वरं प्रयच्छस्व यदि तुष्टो ऽसि मे प्रभो