ब्रह्मिष्ठाश् च व्रतस्थाश् च महायोगाः सुधार्मिकाः गुणैश् चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात् सति
वसिष्ठो ऽत्रिः पुलस्त्यश् च अङ्गिराः पुलहः क्रतुः भृगुर् मरीचिश् च तथा श्रेष्ठा जामातरो मम
तैश् चापि स्पर्धते शर्वः सर्वे ते चैव तं प्रति तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः
इत्य् उक्तवांस् तदा दक्षः संप्रमूढेन चेतसा शापार्थम् आत्मनश् चैव येनोक्ता वै महर्षयः तथोक्ता पितरं सा वै क्रुद्धा देवी तम् अब्रवीत्
वाङ्मनःकर्मभिर् यस्माद् अदुष्टां मां विगर्हसि तस्मात् त्यजाम्य् अहं देहम् इमं तात तवात्मजम्
ततस् तेनापमानेन सती दुःखाद् अमर्षिता अब्रवीद् वचनं देवी नमस्कृत्य स्वयंभुवे
येनाहम् अपदेहा वै पुनर् देहेन भास्वता तत्राप्य् अहम् असंमूढा संभूता धार्मिकी पुनः गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः
तत्रैवाथ समासीना रुष्टात्मानं समादधे धारयाम् आस चाग्नेयीं धारणाम् आत्मनात्मनि
ततः स्वात्मानम् उत्थाप्य वायुना समुदीरितः सर्वाङ्गेभ्यो विनिःसृत्य वह्निर् भस्म चकार ताम्
तद् उपश्रुत्य निधनं सत्या देव्याः स शूलधृक् संवादं च तयोर् बुद्ध्वा याथातथ्येन शंकरः दक्षस्य च विनाशाय चुकोप भगवान् प्रभुः
यस्माद् अवमता दक्ष सहसैवागता सती प्रशस्ताश् चेतराः सर्वास् त्वत्सुता भर्तृभिः सह
तस्माद् वैवस्वते प्राप्ते पुनर् एते महर्षयः उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्य् अयोनिजाः
हुते वै ब्रह्मणः सत्त्रे चाक्षुषस्यान्तरे मनोः अभिव्याहृत्य सप्तर्षीन् दक्षं सो ऽभ्यशपत् पुनः
भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः प्राचीनबर्हिषः पौत्रः पुत्रश् चापि प्रचेतसः
दक्ष इत्य् एव नाम्ना त्वं मारिषायां जनिष्यसि कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे
अहं तत्रापि ते विघ्नम् आचरिष्यामि दुर्मते धर्मकामार्थयुक्तेषु कर्मस्व् इह पुनः पुनः
ततो वै व्याहृतो दक्षो रुद्रं सो ऽभ्यशपत् पुनः
यस्मात् त्वं मत्कृते क्रूर ऋषीन् व्याहृतवान् असि तस्मात् सार्धं सुरैर् यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः
कृत्वाहुतिं तव क्रूर अपः स्पृशन्ति कर्मसु इहैव वत्स्यसे लोके दिवं हित्वायुगक्षयात् ततो देवैस् तु ते सार्धं न तु पूजा भविष्यति
चातुर्वर्ण्यं तु देवानां ते चाप्य् एकत्र भुञ्जते न भोक्ष्ये सहितस् तैस् तु ततो भोक्ष्याम्य् अहं पृथक्
सर्वेषां चैव लोकानाम् आदिर् भूर्लोक उच्यते तम् अहं धारयाम्य् एकः स्वेच्छया न तवाज्ञया
तस्मिन् धृते सर्वलोकाः सर्वे तिष्ठन्ति शाश्वताः तस्माद् अहं वसामीह सततं न तवाज्ञया
ततो ऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा स्वायंभुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्व् इह
यदा गृहपतिर् दक्षो यज्ञानाम् ईश्वरः प्रभुः समस्तेनेह यज्ञेन सो ऽयजद् दैवतैः सह
अथ देवी सती यत् ते प्राप्ते वैवस्वते ऽन्तरे मेनायां ताम् उमां देवीं जनयाम् आस शैलराट्
सा तु देवी सती पूर्वम् आसीत् पश्चाद् उमाभवत् सहव्रता भवस्यैषा नैतया मुच्यते भवः
यावद् इच्छति संस्थानं प्रभुर् मन्वन्तरेष्व् इह मारीचं कश्यपं देवी यथादितिर् अनुव्रता
सार्धं नारायणं श्रीस् तु मघवन्तं शची यथा विष्णुं कीर्तिर् उषा सूर्यं वसिष्ठं चाप्य् अरुन्धती
नैतांस् तु विजहत्य् एता भर्तॄन् देव्यः कथंचन एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे
प्राचीनबर्हिषः पौत्रः पुत्रश् चापि प्रचेतसाम् दशभ्यस् तु प्रचेतोभ्यो मारिषायां पुनर् नृप