इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः ब्रह्मा विष्णुश् च रुद्रश् च स्कन्दो वैश्रवणो यमः
वैद्युतो जाठरश् चाग्निर् ऐन्धनस् तेजसां पतिः धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः
कृतं त्रेता द्वापरश् च कलिः सर्वामराश्रयः कलाकाष्ठामुहूर्ताश् च क्षपा यामास् तथा क्षणाः
संवत्सरकरो ऽश्वत्थः कालचक्रो विभावसुः पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः वरुणः सागरो ऽंशश् च जीमूतो जिवनो ऽरिहा
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः स्रष्टा संवर्तको वह्निः सर्वस्यादिर् अलोलुपः
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः जयो विशालो वरदः सर्वभूतनिषेवितः
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः धन्वन्तरिर् धूमकेतुर् आदिदेवो ऽदितेः सुतः
द्वादशात्मा रविर् दक्षः पिता माता पितामहः स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः
एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः नाम्नाम् अष्टशतं रम्यं मया प्रोक्तं द्विजोत्तमाः
सुरगणपितृयक्षसेवितं ह्य् असुरनिशाकरसिद्धवन्दितम् वरकनकहुताशनप्रभं प्रणिपतितो ऽस्मि हिताय भास्करम्
सूर्योदये यः सुसमाहितः पठेत् स पुत्रदारान् धनरत्नसंचयान् लभेत जातिस्मरतां नरः स तु स्मृतिं च मेधां च स विन्दते पराम्
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच् छुद्धमनाः समाहितः विमुच्यते शोकदवाग्निसागराल् लभेत कामान् मनसा यथेप्सितान्
यो ऽसौ सर्वगतो देवस् त्रिपुरारिस् त्रिलोचनः उमाप्रियकरो रुद्रश् चन्द्रार्धकृतशेखरः
विद्राव्य विबुधान् सर्वान् सिद्धविद्याधरान् ऋषीन् गन्धर्वयक्षनागांश् च तथान्यांश् च समागतान्
जघान पूर्वं दक्षस्य यजतो धरणीतले यज्ञं समृद्धं रत्नाढ्यं सर्वसंभारसंभृतम्
यस्य प्रतापसंत्रस्ताः शक्राद्यास् त्रिदिवौकसः शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः
स आस्ते तत्र वरदः शूलपाणिर् वृषध्वजः पिनाकपाणिर् भगवान् दक्षयज्ञविनाशनः
महादेवो ऽकले देशे कृत्तिवासा वृषध्वजः एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः
किमर्थं स भवो देवः सर्वभूतहिते रतः जघान यज्ञं दक्षस्य देवैः सर्वैर् अलंकृतम्
न ह्य् अल्पं कारणं तत्र प्रभो मन्यामहे वयम् श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः
दक्षस्यासन्न् अष्ट कन्या याश् चैवं पतिसंगताः स्वेभ्यो गृहेभ्यश् चानीय ताः पिताभ्यर्चयद् गृहे
ततस् त्व् अभ्यर्चिता विप्रा न्यवसंस् ताः पितुर् गृहे तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै
नाजुहावात्मजां तां वै दक्षो रुद्रम् अभिद्विषन् अकरोत् संनतिं दक्षे न च कांचिन् महेश्वरः
जामाता श्वशुरे तस्मिन् स्वभावात् तेजसि स्थितः ततो ज्ञात्वा सती सर्वास् तास् तु प्राप्ताः पितुर् गृहम्
जगाम साप्य् अनाहूता सती तु स्वपितुर् गृहम् ताभ्यो हीनां पिता चक्रे सत्याः पूजाम् असंमताम् ततो ऽब्रवीत् सा पितरं देवी क्रोधसमाकुला
यवीयसीभ्यः श्रेष्ठाहं किं न पूजसि मां प्रभो असत्कृताम् अवस्थां यः कृतवान् असि गर्हिताम् अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्तुम् अर्हसि
एवम् उक्तो ऽब्रवीद् एनां दक्षः संरक्तलोचनः
त्वत्तः श्रेष्ठा वरिष्ठाश् च पूज्या बालाः सुता मम तासां ये चैव भर्तारस् ते मे बहुमताः सति