एवम् अस्त्व् इति सो ऽप्य् उक्त्वा भगवान् आदिकृत् प्रभुः लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः
ततः सांख्याश् च योगाश् च ये चान्ये मोक्षकाङ्क्षिणः ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम्
सर्वलक्षणहीनो ऽपि युक्तो वा सर्वपातकैः सर्वं च तरते पापं देवम् अर्कं समाश्रितः
अग्निहोत्रं च वेदाश् च यज्ञाश् च बहुदक्षिणाः भानोर् भक्तिनमस्कारकलां नार्हन्ति षोडशीम्
तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम्
शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम् सर्वकिल्बिषनिर्मुक्ताः सूर्यलोकं व्रजन्ति ते
चिरात् प्रभृति नो ब्रह्मञ् श्रोतुम् इच्छा प्रवर्तते नाम्नाम् अष्टशतं ब्रूहि यत् त्वयोक्तं पुरा रवेः
अष्टोत्तरशतं नाम्नां शृणुध्वं गदतो मम भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः
ॐ सूर्यो ऽर्यमा भगस् त्वष्टा पूषार्कः सविता रविः गभस्तिमान् अजः कालो मृत्युर् धाता प्रभाकरः
पृथिव्य् आपश् च तेजश् च खं वायुश् च परायणम् सोमो बृहस्पतिः शुक्रो बुधो ऽङ्गारक एव च
इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः ब्रह्मा विष्णुश् च रुद्रश् च स्कन्दो वैश्रवणो यमः
वैद्युतो जाठरश् चाग्निर् ऐन्धनस् तेजसां पतिः धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः
कृतं त्रेता द्वापरश् च कलिः सर्वामराश्रयः कलाकाष्ठामुहूर्ताश् च क्षपा यामास् तथा क्षणाः
संवत्सरकरो ऽश्वत्थः कालचक्रो विभावसुः पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः वरुणः सागरो ऽंशश् च जीमूतो जिवनो ऽरिहा
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः स्रष्टा संवर्तको वह्निः सर्वस्यादिर् अलोलुपः
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः जयो विशालो वरदः सर्वभूतनिषेवितः
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः धन्वन्तरिर् धूमकेतुर् आदिदेवो ऽदितेः सुतः
द्वादशात्मा रविर् दक्षः पिता माता पितामहः स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः
एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः नाम्नाम् अष्टशतं रम्यं मया प्रोक्तं द्विजोत्तमाः
सुरगणपितृयक्षसेवितं ह्य् असुरनिशाकरसिद्धवन्दितम् वरकनकहुताशनप्रभं प्रणिपतितो ऽस्मि हिताय भास्करम्
सूर्योदये यः सुसमाहितः पठेत् स पुत्रदारान् धनरत्नसंचयान् लभेत जातिस्मरतां नरः स तु स्मृतिं च मेधां च स विन्दते पराम्
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच् छुद्धमनाः समाहितः विमुच्यते शोकदवाग्निसागराल् लभेत कामान् मनसा यथेप्सितान्
यो ऽसौ सर्वगतो देवस् त्रिपुरारिस् त्रिलोचनः उमाप्रियकरो रुद्रश् चन्द्रार्धकृतशेखरः
विद्राव्य विबुधान् सर्वान् सिद्धविद्याधरान् ऋषीन् गन्धर्वयक्षनागांश् च तथान्यांश् च समागतान्
जघान पूर्वं दक्षस्य यजतो धरणीतले यज्ञं समृद्धं रत्नाढ्यं सर्वसंभारसंभृतम्
यस्य प्रतापसंत्रस्ताः शक्राद्यास् त्रिदिवौकसः शान्तिं न लेभिरे विप्राः कैलासं शरणं गताः
स आस्ते तत्र वरदः शूलपाणिर् वृषध्वजः पिनाकपाणिर् भगवान् दक्षयज्ञविनाशनः
महादेवो ऽकले देशे कृत्तिवासा वृषध्वजः एकाम्रके मुनिश्रेष्ठाः सर्वकामप्रदो हरः