प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् दुर्निरीक्षं सुरेन्द्राणां यद् रूपं तस्य ते नमः
सुरसिद्धगणैर् जुष्टं भृग्वत्रिपुलहादिभिः स्तुतं परमम् अव्यक्तं यद् रूपं तस्य ते नमः
वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् सर्वदेवातिदेवस्य यद् रूपं तस्य ते नमः
विश्वकृद् विश्वभूतं च वैश्वानरसुरार्चितम् विश्वस्थितम् अचिन्त्यं च यद् रूपं तस्य ते नमः
परं यज्ञात् परं वेदात् परं लोकात् परं दिवः परमात्मेत्य् अभिख्यातं यद् रूपं तस्य ते नमः
अविज्ञेयम् अनालक्ष्यम् अध्यानगतम् अव्ययम् अनादिनिधनं चैव यद् रूपं तस्य ते नमः
नमो नमः कारणकारणाय नमो नमः पापविमोचनाय नमो नमस् ते दितिजार्दनाय नमो नमो रोगविमोचनाय
नमो नमः सर्ववरप्रदाय नमो नमः सर्वसुखप्रदाय नमो नमः सर्वधनप्रदाय नमो नमः सर्वमतिप्रदाय
स्तुतः स भगवान् एवं तैजसं रूपम् आस्थितः उवाच वाचा कल्याण्या को वरो वः प्रदीयताम्
तवातितैजसं रूपं न कश्चित् सोढुम् उत्सहेत् सहनीयं तद् भवतु हिताय जगतः प्रभो
एवम् अस्त्व् इति सो ऽप्य् उक्त्वा भगवान् आदिकृत् प्रभुः लोकानां कार्यसिद्ध्यर्थं घर्मवर्षहिमप्रदः
ततः सांख्याश् च योगाश् च ये चान्ये मोक्षकाङ्क्षिणः ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम्
सर्वलक्षणहीनो ऽपि युक्तो वा सर्वपातकैः सर्वं च तरते पापं देवम् अर्कं समाश्रितः
अग्निहोत्रं च वेदाश् च यज्ञाश् च बहुदक्षिणाः भानोर् भक्तिनमस्कारकलां नार्हन्ति षोडशीम्
तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् पवित्रं च पवित्राणां प्रपद्यन्ते दिवाकरम्
शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम् सर्वकिल्बिषनिर्मुक्ताः सूर्यलोकं व्रजन्ति ते
चिरात् प्रभृति नो ब्रह्मञ् श्रोतुम् इच्छा प्रवर्तते नाम्नाम् अष्टशतं ब्रूहि यत् त्वयोक्तं पुरा रवेः
अष्टोत्तरशतं नाम्नां शृणुध्वं गदतो मम भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः
ॐ सूर्यो ऽर्यमा भगस् त्वष्टा पूषार्कः सविता रविः गभस्तिमान् अजः कालो मृत्युर् धाता प्रभाकरः
पृथिव्य् आपश् च तेजश् च खं वायुश् च परायणम् सोमो बृहस्पतिः शुक्रो बुधो ऽङ्गारक एव च
इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः ब्रह्मा विष्णुश् च रुद्रश् च स्कन्दो वैश्रवणो यमः
वैद्युतो जाठरश् चाग्निर् ऐन्धनस् तेजसां पतिः धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः
कृतं त्रेता द्वापरश् च कलिः सर्वामराश्रयः कलाकाष्ठामुहूर्ताश् च क्षपा यामास् तथा क्षणाः
संवत्सरकरो ऽश्वत्थः कालचक्रो विभावसुः पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः वरुणः सागरो ऽंशश् च जीमूतो जिवनो ऽरिहा
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः स्रष्टा संवर्तको वह्निः सर्वस्यादिर् अलोलुपः
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः जयो विशालो वरदः सर्वभूतनिषेवितः
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः धन्वन्तरिर् धूमकेतुर् आदिदेवो ऽदितेः सुतः
द्वादशात्मा रविर् दक्षः पिता माता पितामहः स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः