शं नो ऽस्तु द्विपदे नित्यं शं नश् चास्तु चतुष्पदे ततो विद्याधरगणा यक्षराक्षसपन्नगाः
कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् ऊचुस् ते विविधा वाचो मनःश्रोत्रसुखावहाः
सह्यं भवतु तेजस् ते भूतानां भूतभावन ततो हाहाहूहूश् चैव नारदस् तुम्बुरुस् तथा
उपगायितुम् आरब्धा गान्धर्वकुशला रविम् षड्जमध्यमगान्धारगानत्रयविशारदाः
मूर्छनाभिश् च तालैश् च संप्रयोगैः सुखप्रदम् विश्वाची च घृताची च उर्वश्य् अथ तिलोत्तमाः
मेनका सहजन्या च रम्भा चाप्सरसां वरा ननृतुर् जगताम् ईशे लिख्यमाने विभावसौ
भावहावविलासाद्यान् कुर्वत्यो ऽभिनयान् बहून् प्रावाद्यन्त ततस् तत्र वीणा वेण्वादिझर्झराः
पणवाः पुष्कराश् चैव मृदङ्गाः पटहानकाः देवदुन्दुभयः शङ्खाः शतशो ऽथ सहस्रशः
गायद्भिश् चैव नृत्यद्भिर् गन्धर्वैर् अप्सरोगणैः तूर्यवादित्रघोषैश् च सर्वं कोलाहलीकृतम्
ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः
ततः कोलाहले तस्मिन् सर्वदेवसमागमे तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः
आजानुलिखितश् चासौ निपुणं विश्वकर्मणा नाभ्यनन्दत् तु लिखनं ततस् तेनावतारितः
न तु निर्भर्त्सितं रूपं तेजसो हननेन तु कान्तात् कान्ततरं रूपम् अधिकं शुशुभे ततः
इति हिमजलघर्मकालहेतोर् हरकमलासनविष्णुसंस्तुतस्य तदुपरि लिखनं निशम्य भानोर् व्रजति दिवाकरलोकम् आयुषो ऽन्ते
एवं जन्म रवेः पूर्वं बभूव मुनिसत्तमाः रूपं च परमं तस्य मया संपरिकीर्तितम्
भूयो ऽपि कथयास्माकं कथां सूर्यसमाश्रिताम् न तृप्तिम् अधिगच्छामः शृण्वन्तस् तां कथां शुभाम्
यो ऽयं दीप्तो महातेजा वह्निराशिसमप्रभः एतद् वेदितुम् इच्छामः प्रभावो ऽस्य कुतः प्रभो
तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे प्रकृतेर् गुणहेतुस् तु पूर्वं बुद्धिर् अजायत
अहंकारस् ततो जातो महाभूतप्रवर्तकः वाय्वग्निर् आपः खं भूमिस् ततस् त्व् अण्डम् अजायत
तस्मिन्न् अण्डे त्व् इमे लोकाः सप्त चैव प्रतिष्ठिताः पृथिवी सप्तभिर् द्वीपैः समुद्रैश् चैव सप्तभिः
तत्रैवावस्थितो ह्य् आसीद् अहं विष्णुर् महेश्वरः विमूढास् तामसाः सर्वे प्रध्यायन्ति तम् ईश्वरम्
ततो वै सुमहातेजाः प्रादुर्भूतस् तमोनुदः ध्यानयोगेन चास्माभिर् विज्ञातः सविता तदा
ज्ञात्वा च परमात्मानं सर्व एव पृथक् पृथक् दिव्याभिः स्तुतिभिर् देवः स्तुतो ऽस्माभिस् तदेश्वरः
आदिदेवो ऽसि देवानाम् ऐश्वर्याच् च त्वम् ईश्वरः आदिकर्तासि भूतानां देवदेवो दिवाकरः
जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् मुनिकिंनरसिद्धानां तथैवोरगपक्षिणाम्
त्वं ब्रह्मा त्वं महादेवस् त्वं विष्णुस् त्वं प्रजापतिः वायुर् इन्द्रश् च सोमश् च विवस्वान् वरुणस् तथा
त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः सरितः सागराः शैला विद्युदिन्द्रधनूंषि च
प्रलयः प्रभवश् चैव व्यक्ताव्यक्तः सनातनः ईश्वरात् परतो विद्या विद्यायाः परतः शिवः
शिवात् परतरो देवस् त्वम् एव परमेश्वरः सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः
सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः भूतादिर् भूर् भुवः स्वश् च महः सत्यं तपो जनः