स्नेहेन तुल्यम् अस्मासु माता देव न वर्तते विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति
तस्यां मयोद्यतः पादो न तु देहे निपातितः बाल्याद् वा यदि वा मोहात् तद् भवान् क्षन्तुम् अर्हसि
शप्तो ऽहं तात कोपेन जनन्या तनयो यतः ततो मन्ये न जननीम् इमां वै तपतां वर
तव प्रसादाच् चरणो भगवन् न पतेद् यथा मातृशापाद् अयं मे ऽद्य तथा चिन्तय गोपते
असंशयं महत् पुत्र भविष्यत्य् अत्र कारणम् येन त्वाम् आविशत् क्रोधो धर्मज्ञं धर्मशीलिनम्
सर्वेषाम् एव शापानां प्रतिघातो हि विद्यते न तु मात्राभिशप्तानां क्वचिच् छापनिवर्तनम्
न शक्यम् एतन् मिथ्या तु कर्तुं मातुर् वचस् तव किंचित् ते ऽहं विधास्यामि पुत्रस्नेहाद् अनुग्रहम्
कृमयो मांसम् आदाय प्रयास्यन्ति महीतलम् कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि
आदित्यस् त्व् अब्रवीच् छायां किमर्थं तनयेषु वै तुल्येष्व् अप्य् अधिकः स्नेह एकं प्रति कृतस् त्वया
नूनं नैषां त्वं जननी संज्ञा कापि त्वम् आगता निर्गुणेष्व् अप्य् अपत्येषु माता शापं न दास्यति
सा तत्परिहरन्ती च शापाद् भीता तदा रवेः कथयाम् आस वृत्तान्तं स श्रुत्वा श्वशुरं ययौ
स चापि तं यथान्यायम् अर्चयित्वा तदा रविम् निर्दग्धुकामं रोषेण सान्त्वयानस् तम् अब्रवीत्
तवातितेजसा व्याप्तम् इदं रूपं सुदुःसहम् असहन्ती तु तत् संज्ञा वने चरति वै तपः
द्रक्ष्यते तां भवान् अद्य स्वां भार्यां शुभचारिणीम् रूपार्थं भवतो ऽरण्ये चरन्तीं सुमहत् तपः
श्रुतं मे ब्रह्मणो वाक्यं तव तेजोवरोधने रूपं निर्वर्तयाम्य् अद्य तव कान्तं दिवस्पते
ततस् तथेति तं प्राह त्वष्टारं भगवान् रविः ततो विवस्वतो रूपं प्राग् आसीत् परिमण्डलम्
विश्वकर्मा त्व् अनुज्ञातः शाकद्वीपे विवस्वता भ्रमिम् आरोप्य तत्तेजःशातनायोपचक्रमे
भ्रमताशेषजगतां नाभिभूतेन भास्वता समुद्राद्रिवनोपेता त्व् आरुरोह मही नभः
गगनं चाखिलं विप्राः सचन्द्रग्रहतारकम् अधोगतं महाभागा बभूवाक्षिप्तम् आकुलम्
विक्षिप्तसलिलाः सर्वे बभूवुश् च तथार्णवाः व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः
ध्रुवाधाराण्य् अशेषाणि धिष्ण्यानि मुनिसत्तमाः त्रुट्यद्रश्मिनिबन्धीनि बन्धनानि अधो ययुः
वेगभ्रमणसंपातवायुक्षिप्ताः सहस्रशः व्यशीर्यन्त महामेघा घोरारावविराविणः
भास्वद्भ्रमणविभ्रान्तभूम्याकाशरसातलम् जगद् आकुलम् अत्यर्थं तदासीन् मुनिसत्तमाः
त्रैलोक्यम् आकुलं वीक्ष्य भ्रममाणं सुरर्षयः देवाश् च ब्रह्मणा सार्धं भास्वन्तम् अभितुष्टुवुः
आदिदेवो ऽसि देवानां जातस् त्वं भूतये भुवः सर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि
स्वस्ति ते ऽस्तु जगन्नाथ घर्मवर्षदिवाकर इन्द्रादयस् तदा देवा लिख्यमानम् अथास्तुवन्
जय देव जगत्स्वामिञ् जयाशेषजगत्पते ऋषयश् च ततः सप्त वसिष्ठात्रिपुरोगमाः
तुष्टुवुर् विविधैः स्तोत्रैः स्वस्ति स्वस्तीतिवादिनः वेदोक्तिभिर् अथाग्र्याभिर् वालखिल्याश् च तुष्टुवुः
अग्निर् आद्याश् च भास्वन्तं लिख्यमानं मुदा युताः त्वं नाथ मोक्षिणां मोक्षो ध्येयस् त्वं ध्यानिनां परः
त्वं गतिः सर्वभूतानां कर्मकाण्डविवर्तिनाम् संपूज्यस् त्वं तु देवेश शं नो ऽस्तु जगतां पते