आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम्
इत्य् उक्ता व्रीडिता संज्ञा जगाम पितृमन्दिरम् वत्सराणां सहस्रं तु वसमाना पितुर् गृहे
भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः आगच्छद् वडवा भूत्वा कुरून् अथोत्तरांस् ततः
तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः पितुः समीपं यातायां संज्ञायां वाक्यतत्परा
तद्रूपधारिणी छाया भास्करं समुपस्थिता तस्यां च भगवान् सूर्यः संज्ञेयम् इति चिन्तयन्
तथैव जनयाम् आस द्वौ पुत्रौ कन्यकां तथा संज्ञा तु पार्थिवी तेषाम् आत्मजानां तथाकरोत्
स्नेहं न पूर्वजातानां तथा कृतवती तु सा मनुस् तत् क्षान्तवांस् तस्या यमस् तस्या न चक्षमे
बहुधा पीड्यमानस् तु पितुः पत्या सुदुःखितः स वै कोपाच् च बाल्याच् च भाविनो ऽर्थस्य वै बलात् पदा संतर्जयाम् आस न तु देहे न्यपातयत्
पदा तर्जयसे यस्मात् पितुर् भार्यां गरीयसीम् तस्मात् तवैष चरणः पतिष्यति न संशयः
यमस् तु तेन शापेन भृशं पीडितमानसः मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत्
स्नेहेन तुल्यम् अस्मासु माता देव न वर्तते विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति
तस्यां मयोद्यतः पादो न तु देहे निपातितः बाल्याद् वा यदि वा मोहात् तद् भवान् क्षन्तुम् अर्हसि
शप्तो ऽहं तात कोपेन जनन्या तनयो यतः ततो मन्ये न जननीम् इमां वै तपतां वर
तव प्रसादाच् चरणो भगवन् न पतेद् यथा मातृशापाद् अयं मे ऽद्य तथा चिन्तय गोपते
असंशयं महत् पुत्र भविष्यत्य् अत्र कारणम् येन त्वाम् आविशत् क्रोधो धर्मज्ञं धर्मशीलिनम्
सर्वेषाम् एव शापानां प्रतिघातो हि विद्यते न तु मात्राभिशप्तानां क्वचिच् छापनिवर्तनम्
न शक्यम् एतन् मिथ्या तु कर्तुं मातुर् वचस् तव किंचित् ते ऽहं विधास्यामि पुत्रस्नेहाद् अनुग्रहम्
कृमयो मांसम् आदाय प्रयास्यन्ति महीतलम् कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि
आदित्यस् त्व् अब्रवीच् छायां किमर्थं तनयेषु वै तुल्येष्व् अप्य् अधिकः स्नेह एकं प्रति कृतस् त्वया
नूनं नैषां त्वं जननी संज्ञा कापि त्वम् आगता निर्गुणेष्व् अप्य् अपत्येषु माता शापं न दास्यति
सा तत्परिहरन्ती च शापाद् भीता तदा रवेः कथयाम् आस वृत्तान्तं स श्रुत्वा श्वशुरं ययौ
स चापि तं यथान्यायम् अर्चयित्वा तदा रविम् निर्दग्धुकामं रोषेण सान्त्वयानस् तम् अब्रवीत्
तवातितेजसा व्याप्तम् इदं रूपं सुदुःसहम् असहन्ती तु तत् संज्ञा वने चरति वै तपः
द्रक्ष्यते तां भवान् अद्य स्वां भार्यां शुभचारिणीम् रूपार्थं भवतो ऽरण्ये चरन्तीं सुमहत् तपः
श्रुतं मे ब्रह्मणो वाक्यं तव तेजोवरोधने रूपं निर्वर्तयाम्य् अद्य तव कान्तं दिवस्पते
ततस् तथेति तं प्राह त्वष्टारं भगवान् रविः ततो विवस्वतो रूपं प्राग् आसीत् परिमण्डलम्
विश्वकर्मा त्व् अनुज्ञातः शाकद्वीपे विवस्वता भ्रमिम् आरोप्य तत्तेजःशातनायोपचक्रमे
भ्रमताशेषजगतां नाभिभूतेन भास्वता समुद्राद्रिवनोपेता त्व् आरुरोह मही नभः
गगनं चाखिलं विप्राः सचन्द्रग्रहतारकम् अधोगतं महाभागा बभूवाक्षिप्तम् आकुलम्
विक्षिप्तसलिलाः सर्वे बभूवुश् च तथार्णवाः व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः