तेजसा दह्यमानास् ते भस्मीभूता महासुराः ततः प्रहर्षम् अतुलं प्राप्ताः सर्वे दिवौकसः
तुष्टुवुस् तेजसां योनिं मार्तण्डम् अदितिं तथा स्वाधिकारांस् ततः प्राप्ता यज्ञभागांश् च पूर्ववत्
भगवान् अपि मार्तण्डः स्वाधिकारम् अथाकरोत् कदम्बपुष्पवद् भास्वान् अधश् चोर्ध्वं च रश्मिभिः वृतो ऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः
कथं कान्ततरं पश्चाद् रूपं संलब्धवान् रविः कदम्बगोलकाकारं तन् मे ब्रूहि जगत्पते
त्वष्टा तस्मै ददौ कन्यां संज्ञां नाम विवस्वते प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः
त्रीण्य् अपत्यान्य् असौ तस्यां जनयाम् आस गोपतिः द्वौ पुत्रौ सुमहाभागौ कन्यां च यमुनां तथा
यत् तेजो ऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः तेनातितापयाम् आस त्रींल् लोकान् सचराचरान्
तद् रूपं गोलकाकारं दृष्ट्वा संज्ञा विवस्वतः असहन्ती महत् तेजः स्वां छायां वाक्यम् अब्रवीत्
अहं यास्यामि भद्रं ते स्वम् एव भवनं पितुः निर्विकारं त्वयात्रैव स्थेयं मच्छासनाच् छुभे
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी संभाव्या नैव चाख्येयम् इदं भगवते त्वया
आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम्
इत्य् उक्ता व्रीडिता संज्ञा जगाम पितृमन्दिरम् वत्सराणां सहस्रं तु वसमाना पितुर् गृहे
भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः आगच्छद् वडवा भूत्वा कुरून् अथोत्तरांस् ततः
तत्र तेपे तपः साध्वी निराहारा द्विजोत्तमाः पितुः समीपं यातायां संज्ञायां वाक्यतत्परा
तद्रूपधारिणी छाया भास्करं समुपस्थिता तस्यां च भगवान् सूर्यः संज्ञेयम् इति चिन्तयन्
तथैव जनयाम् आस द्वौ पुत्रौ कन्यकां तथा संज्ञा तु पार्थिवी तेषाम् आत्मजानां तथाकरोत्
स्नेहं न पूर्वजातानां तथा कृतवती तु सा मनुस् तत् क्षान्तवांस् तस्या यमस् तस्या न चक्षमे
बहुधा पीड्यमानस् तु पितुः पत्या सुदुःखितः स वै कोपाच् च बाल्याच् च भाविनो ऽर्थस्य वै बलात् पदा संतर्जयाम् आस न तु देहे न्यपातयत्
पदा तर्जयसे यस्मात् पितुर् भार्यां गरीयसीम् तस्मात् तवैष चरणः पतिष्यति न संशयः
यमस् तु तेन शापेन भृशं पीडितमानसः मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत्
स्नेहेन तुल्यम् अस्मासु माता देव न वर्तते विसृज्य ज्यायसं भक्त्या कनीयांसं बुभूषति
तस्यां मयोद्यतः पादो न तु देहे निपातितः बाल्याद् वा यदि वा मोहात् तद् भवान् क्षन्तुम् अर्हसि
शप्तो ऽहं तात कोपेन जनन्या तनयो यतः ततो मन्ये न जननीम् इमां वै तपतां वर
तव प्रसादाच् चरणो भगवन् न पतेद् यथा मातृशापाद् अयं मे ऽद्य तथा चिन्तय गोपते
असंशयं महत् पुत्र भविष्यत्य् अत्र कारणम् येन त्वाम् आविशत् क्रोधो धर्मज्ञं धर्मशीलिनम्
सर्वेषाम् एव शापानां प्रतिघातो हि विद्यते न तु मात्राभिशप्तानां क्वचिच् छापनिवर्तनम्
न शक्यम् एतन् मिथ्या तु कर्तुं मातुर् वचस् तव किंचित् ते ऽहं विधास्यामि पुत्रस्नेहाद् अनुग्रहम्
कृमयो मांसम् आदाय प्रयास्यन्ति महीतलम् कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि
आदित्यस् त्व् अब्रवीच् छायां किमर्थं तनयेषु वै तुल्येष्व् अप्य् अधिकः स्नेह एकं प्रति कृतस् त्वया
नूनं नैषां त्वं जननी संज्ञा कापि त्वम् आगता निर्गुणेष्व् अप्य् अपत्येषु माता शापं न दास्यति