ग्रहीतुम् अष्टमासेन कालेनाम्बुमयं रसम् बिभ्रतस् तव यद् रूपम् अतितीव्रं नतास्मि तत्
समेतम् अग्निसोमाभ्यां नमस् तस्मै गुणात्मने यद् रूपम् ऋग्यजुःसाम्नाम् ऐक्येन तपते तव
विश्वम् एतत् त्रयीसंज्ञं नमस् तस्मै विभावसो यत् तु तस्मात् परं रूपम् ॐ इत्य् उक्त्वाभिसंहितम् अस्थूलं स्थूलम् अमलं नमस् तस्मै सनातन
एवं सा नियता देवी चक्रे स्तोत्रम् अहर्निशम् निराहारा विवस्वन्तम् आरिराधयिषुर् द्विजाः
ततः कालेन महता भगवांस् तपनो द्विजाः प्रत्यक्षताम् अगात् तस्या दाक्षायण्या द्विजोत्तमाः
सा ददर्श महाकूटं तेजसो ऽम्बरसंवृतम् भूमौ च संस्थितं भास्वज्ज्वालाभिर् अतिदुर्दृशम् तं दृष्ट्वा च ततो देवी साध्वसं परमं गता
जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते प्रसादं कुरु पश्येयं यद् रूपं ते दिवाकर भक्तानुकम्पक विभो त्वद्भक्तान् पाहि मे सुतान्
ततः स तेजसस् तस्माद् आविर्भूतो विभावसुः अदृश्यत तदादित्यस् तप्तताम्रोपमः प्रभुः
ततस् तां प्रणतां देवीं तस्यासंदर्शने द्विजाः प्राह भास्वान् वृणुष्वैकं वरं मत्तो यम् इच्छसि
प्रणता शिरसा सा तु जानुपीडितमेदिनी प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम्
देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम यज्ञभागाश् च दैतेयैर् दानवैश् च बलाधिकैः
तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते अंशेन तेषां भ्रातृत्वं गत्वा तान् नाशये रिपून्
यथा मे तनया भूयो यज्ञभागभुजः प्रभो भवेयुर् अधिपाश् चैव त्रैलोक्यस्य दिवाकर
तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम कुरु प्रसन्नार्तिहर कार्यं कर्ता त्वम् उच्यते
ततस् ताम् आह भगवान् भास्करो वारितस्करः प्रणताम् अदितिं विप्राः प्रसादसुमुखो विभुः
सहस्रांशेन ते गर्भः संभूयाहम् अशेषतः त्वत्पुत्रशत्रून् दक्षो ऽहं नाशयाम्य् आशु निर्वृतः
इत्य् उक्त्वा भगवान् भास्वान् अन्तर्धानम् उपागतः निवृत्ता सापि तपसः संप्राप्ताखिलवाञ्छिता
ततो रश्मिसहस्रात् तु सुषुम्नाख्यो रवेः करः ततः संवत्सरस्यान्ते तत्कामपूरणाय सः
निवासं सविता चक्रे देवमातुस् तदोदरे कृच्छ्रचान्द्रायणादींश् च सा चक्रे सुसमाहिता
शुचिना धारयाम्य् एनं दिव्यं गर्भम् इति द्विजाः ततस् तां कश्यपः प्राह किंचित्कोपप्लुताक्षरम्
किं मारयसि गर्भाण्डम् इति नित्योपवासिनी सा च तं प्राह गर्भाण्डम् एतत् पश्येति कोपना न मारितं विपक्षाणां मृत्युर् एव भविष्यति
इत्य् उक्त्वा तं तदा गर्भम् उत्ससर्ज सुरारणिः जाज्वल्यमानं तेजोभिः पत्युर् वचनकोपिता
तं दृष्ट्वा कश्यपो गर्भम् उद्यद्भास्करवर्चसम् तुष्टाव प्रणतो भूत्वा वाग्भिर् आद्याभिर् आदरात्
संस्तूयमानः स तदा गर्भाण्डात् प्रकटो ऽभवत् पद्मपत्त्रसवर्णाभस् तेजसा व्याप्तदिङ्मुखः
अथान्तरिक्षाद् आभाष्य कश्यपं मुनिसत्तमम् सतोयमेघगम्भीरा वाग् उवाचाशरीरिणी
मारितंतेपतः प्रोक्तम् एतद् अण्डं त्वयादितेः तस्मान् मुने सुतस् ते ऽयं मार्तण्डाख्यो भविष्यति
हनिष्यत्य् असुरांश् चायं यज्ञभागहरान् अरीन् देवा निशम्येति वचो गगनात् समुपागतम्
प्रहर्षम् अतुलं याता दानवाश् च हतौजसः ततो युद्धाय दैतेयान् आजुहाव शतक्रतुः
सह देवैर् मुदा युक्तो दानवाश् च तम् अभ्ययुः तेषां युद्धम् अभूद् घोरं देवानाम् असुरैः सह
शस्त्रास्त्रवृष्टिसंदीप्तसमस्तभुवनान्तरम् तस्मिन् युद्धे भगवता मार्तण्डेन निरीक्षिताः