दक्षस् ताः प्रददौ कन्याः कश्यपाय त्रयोदश अदितिर् जनयाम् आस देवांस् त्रिभुवनेश्वरान्
दैत्यान् दितिर् दनुश् चोग्रान् दानवान् बलदर्पितान् विनताद्यास् तथा चान्याः सुषुवुः स्थानुजङ्गमान्
तस्याथ पुत्रदौहित्रैः पौत्रदौहित्रकादिभिः व्याप्तम् एतज् जगत् सर्वं तेषां तासां च वै मुने
तेषां कश्यपपुत्राणां प्रधाना देवतागणाः सात्त्विका राजसाश् चान्ये तामसाश् च गणाः स्मृताः
देवान् यज्ञभुजश् चक्रे तथा त्रिभुवनेश्वरान् स्रष्टा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः
तान् अबाधन्त सहिताः सापत्न्याद् दैत्यदानवाः ततो निराकृतान् पुत्रान् दैतेयैर् दानवैस् तथा
हतं त्रिभुवनं दृष्ट्वा अदितिर् मुनिसत्तमाः आच्छिनद् यज्ञभागांश् च क्षुधा संपीडितान् भृशम्
आराधनाय सवितुः परं यत्नं प्रचक्रमे एकाग्रा नियताहारा परं नियमम् आस्थिता तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम्
नमस् तुभ्यं परं सूक्ष्मं सुपुण्यं बिभ्रते ऽतुलम् धाम धामवताम् ईशं धामाधारं च शाश्वतम्
जगताम् उपकाराय त्वाम् अहं स्तौमि गोपते आददानस्य यद् रूपं तीव्रं तस्मै नमाम्य् अहम्
ग्रहीतुम् अष्टमासेन कालेनाम्बुमयं रसम् बिभ्रतस् तव यद् रूपम् अतितीव्रं नतास्मि तत्
समेतम् अग्निसोमाभ्यां नमस् तस्मै गुणात्मने यद् रूपम् ऋग्यजुःसाम्नाम् ऐक्येन तपते तव
विश्वम् एतत् त्रयीसंज्ञं नमस् तस्मै विभावसो यत् तु तस्मात् परं रूपम् ॐ इत्य् उक्त्वाभिसंहितम् अस्थूलं स्थूलम् अमलं नमस् तस्मै सनातन
एवं सा नियता देवी चक्रे स्तोत्रम् अहर्निशम् निराहारा विवस्वन्तम् आरिराधयिषुर् द्विजाः
ततः कालेन महता भगवांस् तपनो द्विजाः प्रत्यक्षताम् अगात् तस्या दाक्षायण्या द्विजोत्तमाः
सा ददर्श महाकूटं तेजसो ऽम्बरसंवृतम् भूमौ च संस्थितं भास्वज्ज्वालाभिर् अतिदुर्दृशम् तं दृष्ट्वा च ततो देवी साध्वसं परमं गता
जगदाद्य प्रसीदेति न त्वां पश्यामि गोपते प्रसादं कुरु पश्येयं यद् रूपं ते दिवाकर भक्तानुकम्पक विभो त्वद्भक्तान् पाहि मे सुतान्
ततः स तेजसस् तस्माद् आविर्भूतो विभावसुः अदृश्यत तदादित्यस् तप्तताम्रोपमः प्रभुः
ततस् तां प्रणतां देवीं तस्यासंदर्शने द्विजाः प्राह भास्वान् वृणुष्वैकं वरं मत्तो यम् इच्छसि
प्रणता शिरसा सा तु जानुपीडितमेदिनी प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम्
देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम यज्ञभागाश् च दैतेयैर् दानवैश् च बलाधिकैः
तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते अंशेन तेषां भ्रातृत्वं गत्वा तान् नाशये रिपून्
यथा मे तनया भूयो यज्ञभागभुजः प्रभो भवेयुर् अधिपाश् चैव त्रैलोक्यस्य दिवाकर
तथानुकल्पं पुत्राणां सुप्रसन्नो रवे मम कुरु प्रसन्नार्तिहर कार्यं कर्ता त्वम् उच्यते
ततस् ताम् आह भगवान् भास्करो वारितस्करः प्रणताम् अदितिं विप्राः प्रसादसुमुखो विभुः
सहस्रांशेन ते गर्भः संभूयाहम् अशेषतः त्वत्पुत्रशत्रून् दक्षो ऽहं नाशयाम्य् आशु निर्वृतः
इत्य् उक्त्वा भगवान् भास्वान् अन्तर्धानम् उपागतः निवृत्ता सापि तपसः संप्राप्ताखिलवाञ्छिता
ततो रश्मिसहस्रात् तु सुषुम्नाख्यो रवेः करः ततः संवत्सरस्यान्ते तत्कामपूरणाय सः
निवासं सविता चक्रे देवमातुस् तदोदरे कृच्छ्रचान्द्रायणादींश् च सा चक्रे सुसमाहिता
शुचिना धारयाम्य् एनं दिव्यं गर्भम् इति द्विजाः ततस् तां कश्यपः प्राह किंचित्कोपप्लुताक्षरम्